All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरभान्ताः
इति द्विस्वरबान्ताः ।
कुम्भो वेश्यापतौ घटे ॥ ३०१ ॥
2.22.301
द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ।कुम्भ्युखायां पाटलायां वारिपर्ण्यां च कट्फले ॥ ३०२ ॥
2.22.302
अनुष्टुप्
गर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकण्टके ।मध्येऽग्नावपवरके जम्भः स्याद्दानवान्तरे ॥ ३०३ ॥
2.22.303
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
दन्तभोजनयोरंशे हनौ जम्बीरतूणयोः ।जृम्भा जृम्भणे विकासे डिम्भो वैधेयबालयोः ॥ ३०४ ॥
2.22.304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म्भ (wrong syllable)
दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः ।चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराजि च ॥ ३०५ ॥
2.22.305
अनुष्टुप्
निभः स्यात्सदृशे व्याजे दम्भो वैणवदण्डके ।रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ ॥ ३०६ ॥
2.22.306
अनुष्टुप्
व्यापके शङ्करे नित्ये शम्भुर्ब्रह्मार्हतोः शिवे ।शुभो योगे शुभं भद्रे स्तम्भः स्थूणाङ्गजाड्ययोः ॥ ३०७ ॥
2.22.307
अनुष्टुप्
सभा सभ्येषु शालायां गोष्ठ्यां द्यूतसमूहयोः ।स्वभूर्विष्णौ विधावामोऽपक्वे रुग्भेदरोगयोः ॥ ३०८ ॥
2.22.308
अनुष्टुप्