All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरमान्ताः
इति त्रिस्वरभान्ताः ।
अधमो न्यूनगर्ह्ययोः ॥ ४९० ॥
3.21.490
आगमं त्वागतौ शास्त्रे आश्रमो व्रतिनां मठे ।ब्रह्मचर्यादिचतुष्केऽप्युत्तमा दुग्धिकौषधौ ॥ ४९१ ॥
3.21.491
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
उत्तमं तु प्रधाने स्यात् कलमः शालिचौरयोः ।कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ॥ ४९२ ॥
3.21.492
अनुष्टुप्
कृत्रिमं लवणभेदे कृत्रिमः कृतसिह्लयोः ।गोधूमो भेषजे नागरङ्गव्रीहिविशेषयोः ॥ ४९३ ॥
3.21.493
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
गोलोमी वारयोषायां षड्ग्रन्थासितदूर्वयोः ।गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः ॥ ४९४ ॥
3.21.494
अनुष्टुप्
गौतम्युमायां रोचन्यां तलिमं तल्पखड्गयोः ।विताने कुट्टिमे चापि दाडिमः करकैलयोः ॥ ४९५ ॥
3.21.495
अनुष्टुप्
निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुःकुलेऽपि च ।नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते ॥ ४९६ ॥
3.21.496
अनुष्टुप्
प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे ।पञ्चमः पूरणे दक्षे पञ्चानामपि पूरणे ॥ ४९८ ॥
3.21.498
अनुष्टुप्
रागभेदे पञ्जमी तु द्रौपद्यां परमः परे ।अग्रेसरप्रधानयोरोङ्कारे परमं पुनः ॥ ४९९ ॥
3.21.499
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 न (wrong syllable)
स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके ।गजस्य दन्तबन्धे च मध्यमो मध्यजे स्वरे ॥ ५०० ॥
3.21.500
अनुष्टुप्
देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः ।राका रजस्वला चापि व्यायामः पौरुषे श्रमे ॥ ५०१ ॥
3.21.501
अनुष्टुप्
वियामे दुर्गसञ्चारे विलोममरघट्टके ।विलोमो वरुणे सर्पे प्रतीपे कुक्कुरेऽपि च ॥ ५०२ ॥
3.21.502
अनुष्टुप्
वलोमी स्यादामलक्यां विक्रमः शक्तिसम्पदि ।क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः ॥ ५०३ ॥
3.21.503
अनुष्टुप्
शोभायां संशये हावे सत्तमः श्रेष्ठपूज्ययोः ।साधिष्ठे संभ्रमो भीतौ संवेगादरयोरपि ॥ ५०४ ॥
3.21.504
अनुष्टुप्
सुषीमः शिशिरे रम्ये सुषमं रुचिरे समे ।सुषमा तु स्यात्परमशोभायां कालभिद्यपि ॥ ५०५ ॥
3.21.505
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)