कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरभान्ताः

इति त्रिस्वरबान्ताः ।

आरम्भस्तु वधदर्पयोः ।त्वरायामुद्यमे वाऽप्यात्मभूर्ब्रह्मणि मन्मथे ॥ ४८० ॥
3.20.480
अनुष्टुप्metre not read in every line
ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ।कर्णरन्ध्रे कोलपुच्छे श्रेष्ठे चाप्युत्तरस्थितः ॥ ४८१ ॥
3.20.481
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति ।विधवायां शिरालायां करभो मृग उष्ट्रके ॥ ४८२ ॥
3.20.482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
अङ्गुलेश्च कनिष्ठायां मणिबन्धस्य चान्तरे ।ककुभो वीणाप्रसेवे रागभेदेऽर्जुनद्रुमे ॥ ४८३ ॥
3.20.483
अनुष्टुप्
कुसुम्भं तु शातकुम्भे स्याल्लट्वायां कमण्डलौ ।गर्दभो रासभे गन्धे गर्दभी जन्तुरुग्भिदोः ॥ ४८४ ॥
3.20.484
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
गर्दभं कुमुदश्वेते दुर्लभः कच्छुरे प्रिये ।दुष्प्रापे दुन्दुभिस्तु स्याद्भेर्यां दितिसुते विषे ॥ ४८५ ॥
3.20.485
अनुष्टुप्
अक्षबिन्दुत्रिकद्वन्द्वे निकुम्भः कुम्भकर्णजे ।दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेऽपि च ॥ ४८६ ॥
3.20.486
अनुष्टुप्
वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः ।विष्कम्भो विस्तृतौ योगविशेषप्रतिबन्धयोः ॥ ४८७ ॥
3.20.487
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पु (wrong syllable)
योगिनां च बन्धभेदे रूपकावयवेऽपि च ।विस्रम्भः केलिकलहे विश्वासे प्रमये वधे ॥ ४८८ ॥
3.20.488
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
वृषभः स्यादादिजिने वृषपुङ्गवयोरपि ।सनाभिर्ज्ञातिसदृशोः सुरभिर्हेम्नि चम्पके ॥ ४८९ ॥
3.20.489
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः ।सुगन्धौ गवि शल्लक्याम्
3.20.11
metre not recognised