All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरहान्ताः
इति त्रिस्वरसान्ताः ।
अत्यूहस्तु मयूरे स्यादत्यूहा नीलिकौषधौ ।आग्रहोऽनुग्रहासक्तिग्रहेष्वाक्रमणेऽपि च ॥ ८०४ ॥
3.29.804
अनुष्टुप्
आरोहो दैर्घ्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि ।आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे ॥ ८०५ ॥
3.29.805
अनुष्टुप्
कलहो मण्डले खड्गकोशे युद्धवराटयोः ।कटाहः स्यात्कूर्मपृष्टे कर्परे महिषीशिशौ ॥ ८०६ ॥
3.29.806
अनुष्टुप्
तैलादिपाकपात्रे च दात्यूहः कालकण्टके ।वातकेऽपि नवाहस्तु प्रतिपत्तिथिघस्रयोः ॥ ८०७ ॥
3.29.807
अनुष्टुप्
निर्व्यूहो द्वारि निर्यासे शिखरे नागदन्तके ।निरूहो निश्चिते तर्के वस्तिभेदेऽथ निग्रहः ॥ ८०८ ॥
3.29.808
अनुष्टुप्
बन्धके भर्त्सने सीम्नि प्रग्रहः किरमे भुजे ।तुलासूत्रेऽश्वादिरश्मौ सुवर्णे हरिपादपे ॥ ८०९ ॥
3.29.809
अनुष्टुप्
बन्धे वन्द्यां प्रवाहस्तु व्यवहाराम्बुवेगयोः ।प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ८१० ॥
3.29.810
अनुष्टुप्
प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने ।पटहो वाद्य आरम्भे वराहो नाणके किटौ ॥ ८११ ॥
3.29.811
अनुष्टुप्
मेघे मुस्ते गिरौ विष्णौ वारही गृष्टिभेषजे ।मातर्यपि विदेहस्तु निर्देहे मैथिलेऽपि च ॥ ८१२ ॥
3.29.812
अनुष्टुप्
विग्रहो युधि विस्तारे प्रविभागशरीरयोः ।वैदेही पिप्पलीसीतारोचनासु वणिक्स्त्रियाम् ॥ ८१३ ॥
3.29.813
अनुष्टुप्
सङ्ग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि ।सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे ॥ ८१४ ॥
3.29.814
अनुष्टुप्metre not read in every line
रास्नाशेफालिकागोधापद्यैलापर्णिकासु च ।
3.29.12