All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरटान्ताः
इति द्विस्वरञान्ताः ।
अट्टो हट्टाऽट्टालकयोर्भृशे ।चतुष्कभक्तयोरिष्टमीप्सिते क्रतुकर्मणि ॥ ७८ ॥
2.9.78
अनुष्टुप्metre not read in every line
पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः ।संग्रहश्लोकेऽथ कटो गजगण्डे कटौ भृशे ॥ ७९ ॥
2.9.79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 केऽ (wrong syllable)
कुटः कोटे शिलाकुट्टे घटे गेहे कुटी मुरा ।चित्रगुच्छः कुम्भदासी कूटं पूर्द्वारयन्त्रयोः ॥ ८२ ॥
2.9.82
अनुष्टुप्
मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः ।निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ॥ ८३ ॥
2.9.83
अनुष्टुप्
कोट्युत्कर्षाटनीसंख्यास्रिषु खटस्तृणे कफे ।टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥ ८४ ॥
2.9.84
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
एकग्रहेऽथ खेटः स्याद्ग्रामभेदे कफेऽधमे ।स्फरे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ ८५ ॥
2.9.85
अनुष्टुप्
वराहक्रान्ता च घटा घटने गजसंहतौ ।गोष्ठ्यां घटस्त्विभशिरः कूटे समाधिकुम्भयोः ॥ ८६ ॥
2.9.86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः ।घोण्टा पूगबदरयोश्चटुश्चाटुपिचण्डयोः ॥ ८७ ॥
2.9.87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
व्रत्यासने जटा केशविकारे मांसिमूलयोः ।झाटो व्रणादिसम्मार्ष्टौ कुञ्जकान्तारयोरपि ॥ ८८ ॥
2.9.88
अनुष्टुप्
त्वष्टाऽर्के विश्वकृत्तक्ष्णोस्त्रुटिः संशयलेशयोः ।सूक्ष्मैलायां कालमाने त्रोटिचञ्च्वां खगान्तरे ॥ ८९ ॥
2.9.89
अनुष्टुप्
मीनकज्जुलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि ।दिष्टिरानन्दे माने च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ९० ॥
2.9.90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्दे (wrong syllable)
पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे ।व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका ॥ ९१ ॥
2.9.91
अनुष्टुप्
रोध्रेऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः ।स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ ९२ ॥
2.9.92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
पुष्टिः स्यात् पोषणे वृद्धौ फटा तु कैतवे फणे ।भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने ॥ ९३ ॥
2.9.93
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
शून्यवाट्यामथ म्लिष्टं म्लानमस्पष्टभाषितम् ।यष्टिर्भार्ग्यां मधुयष्ट्यां ध्वजदण्डेऽस्त्रहारयोः ॥ ९४ ॥
2.9.94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः ।वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः ॥ ९५ ॥
2.9.95
अनुष्टुप्
वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः ।वाटी वास्तौ गृहोद्यानेत्कट्योर्विटस्तु मूषिके ॥ ९६ ॥
2.9.96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्वि (wrong syllable)
खदिरे लवणे षिड्गेऽद्रौ च व्युष्टं फले दिने ।पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥ ९७ ॥
2.9.97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable)
विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च ।सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ९८ ॥
2.9.98
अनुष्टुप्
सिते व्याप्ते स्फुटिस्त्वङ्घ्रिस्फोटे निर्भिन्नचिर्भटे ।सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ॥ ९९ ॥
2.9.99
अनुष्टुप्
प्रचुरे निर्मिते चाथ हृष्टः स्यात् केशरोमसु ।जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ १०० ॥
2.9.100
अनुष्टुप्