कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरकान्ताः

इति द्विस्वरहान्ताः ।

इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्रहे द्विस्वरकाण्डो द्वितीयः ॥ २ ॥

अथ त्रिस्वरकाण्डः

अणुको निपुणेऽल्पे चाऽशोकौ कङ्केल्लिवञ्जुलौ ।निःशोकपारदौ चाप्यशोका तु कटुरोहिणी ॥ १ ॥
3.1.1
अनुष्टुप्
अभीको निर्भये कम्रेऽप्यनीकं रणसैन्ययोः ।अलीकमप्रिये भावे वितथेऽनूकमन्वये ॥ २ ॥
3.1.2
अनुष्टुप्
शीलेऽनूको गतजन्मन्यंशुकं सूक्ष्मवाससि ।उत्तरीये वस्त्रमात्रेऽप्यलकाश्चूर्णकुन्तलाः ॥ ३ ॥
3.1.3
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
अलका तु कुबेरस्य नगर्यामन्तिकं पुनः ।पार्श्वेऽन्तिका तु चुल्ली स्यात्सातलाख्यौषधेऽपि च ॥ ४ ॥
3.1.4
अनुष्टुप्
नाट्योक्तौ ज्येष्ठभगिनी अत्तिका प्रोच्यतेऽपि सा ।अलर्को नृपे श्वेतार्के रोगोन्मादितशुन्यपि ॥ ५ ॥
3.1.5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पे (wrong syllable)
अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि ।अन्धिका तु कैतवे स्याच्छर्वरीसिद्धयोरपि ॥ ६ ॥
3.1.6
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 तु (wrong syllable)
अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ।आलोको दर्शने बन्दिभाषाणोद्योतयोरपि ॥ ७ ॥
3.1.7
अनुष्टुप्
आनकः पटहे भेर्यां नदन्मेघमृदङ्गयोः ।आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ ॥ ८ ॥
3.1.8
अनुष्टुप्
आह्निकं स्यात्पुनरहर्निवृत्ये नित्यकर्मणि ।भोजने ग्रन्थभागे चाऽऽढकः प्रस्थचतुष्टयम् ॥ ९ ॥
3.1.9
अनुष्टुप्
आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे ।स्यादुलूकः काकशत्राविन्द्रे भारतयोधिनि ॥ १० ॥
3.1.10
अनुष्टुप्
उष्णिका मृद्भाण्डभेदे करभस्य च योषिति ।उदर्कस्तूत्तरकालफले मदनकण्टके ॥ ११ ॥
3.1.11
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
उष्णको घर्म उद्युक्तातुरयोरूर्मिका पुनः ।उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके ॥ १२ ॥
3.1.12
अनुष्टुप्
वीच्यां च कनकं हेम्नि कनको नागकेसरे ।धत्तूरे चम्पके काञ्चनारकिंशुकयोरपि ॥ १३ ॥
3.1.13
अनुष्टुप्
करको दाडिमे पक्षिभेदे हस्ते कमण्डलौ ।लट्वाकरञ्जयोर्मेघोपले च कटुकं कटु ॥ १४ ॥
3.1.14
अनुष्टुप्
कटुरोहिणी व्योषं च कञ्चुकश्चोलवर्मणोः ।वर्द्धापकगृहीताङ्गवसने वरबाणके ॥ १५ ॥
3.1.15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णी (wrong syllable)
निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ।सेनायां राजधन्यां च क्रमुको भद्रमुस्तके ॥ १६ ॥
3.1.16
अनुष्टुप्
गुवाके पट्टिकालोध्रे कण्टकः क्षुद्रवैरिणि ।वेणौ द्रुमाङ्गे रोमाञ्चे कलङ्कोऽङ्कापवादयोः ॥ १७ ॥
3.1.17
अनुष्टुप्
कालायसमले चापि कर्णिका कर्णभूषणे ।बीजकोशे सरोजस्य करमध्याङ्गुलावपि ॥ १८ ॥
3.1.18
अनुष्टुप्
कुट्टिन्यां हस्तिहस्ताग्रे कर्णिका सूक्ष्मवस्तुनि ।अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः ॥ १९ ॥
3.1.19
अनुष्टुप्
कारकं कर्त्तृकर्माद्योः कारिका यातना नदी ।कृतौ विवरणश्लोके नापितादिककर्मणि ॥ २० ॥
3.1.20
अनुष्टुप्
कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः ।वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे ॥ २१ ॥
3.1.21
अनुष्टुप्
कोरके पक्षादिपाशे कालिका योगिनीभिदि ।स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे ॥ २२ ॥
3.1.22
अनुष्टुप्
क्रमदेयवस्तुमूल्ये कार्ष्ण्यवृश्चिकपत्रयोः ।रोमाल्यां धूसरीमांस्योः काकीपटोलशाखयोः ॥ २३ ॥
3.1.23
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable); pāda 4, syllable 3 प (wrong syllable)
किम्पाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौ ।कीचको ध्वनिमद्वंशे दैत्यभेदे द्रुमान्तरे ॥ २४ ॥
3.1.24
अनुष्टुप्
कुलकं पञ्चादिश्लोकसमन्वये पटोलके ।कुलकः कुलप्रधाने वल्मीके काकतिन्दुके ॥ २५ ॥
3.1.25
metre not recognised
कुलिकस्तु कुलश्रेष्ठे नागद्रुमविशेषयोः ।कुशिको मुनिभेदे स्यात्फाले सर्ज्जे बिभीतके ॥ २६ ॥
3.1.26
अनुष्टुप्
क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःखिते खले ।कूपको गुमवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ २७ ॥
3.1.27
अनुष्टुप्
कूर्चिका क्षीरविकृतौ कुञ्चिकायां च कुड्मले ।आलेख्यकूर्चिकासूच्योः कृषकौ फालकर्षकौ ॥ २८ ॥
3.1.28
अनुष्टुप्
कोरकं कुड्मले तु स्यात्कक्कोलकमृणालयोः ।कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ॥ २९ ॥
3.1.29
अनुष्टुप्
पारम्पर्यागतस्थाने मङ्गलोद्वाहसूत्रयोः ।गीतादौ भोगकाले च कौशिकः शक्रघूकयोः ॥ ३० ॥
3.1.30
अनुष्टुप्
कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ ।कौशिकी चण्डिकानद्योः खनकः सन्धितस्करे ॥ ३१ ॥
3.1.31
अनुष्टुप्
मूषके भूमिवित्तज्ञे खट्टिको मांसविक्रयी ।महिषीक्षीरफेनश्च खुल्लकः स्वल्पनीचयोः ॥ ३२ ॥
3.1.32
अनुष्टुप्
खोलकः पूगकोशे स्याच्छिरस्त्रे नाकुपाकयोः ।ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णकभेषजे ॥ ३३ ॥
3.1.33
अनुष्टुप्
ग्रन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः ।गण्डको विघ्ने विद्यायां संख्यावच्छेदखड्गिषु ॥ ३४ ॥
3.1.34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ्ने (wrong syllable)
गण्डकी तु सरिद्भेदे गणको ग्रहवेदिनि ।गणिकेभ्यां यूथिकायां तर्कार्यां पण्ययोषिति ॥ ३५ ॥
3.1.35
अनुष्टुप्
ग्राहको ग्रहीतरि स्याद् व्याधानां घातिपक्षिणि ।गान्धिको लेखके गन्धवणिजे गुण्डकं पुनः ॥ ३६ ॥
3.1.36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्र (wrong syllable)
कलोक्तौ मलिने धूलौ स्नेहपात्रेऽथ गैरिकम् ।स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ३७ ॥
3.1.37
अनुष्टुप्
अलिञ्जरे गुडे चापि गोरङ्कुर्नग्नवेदिनोः ।खगे च चषको मद्ये सरके मद्यभाजने ॥ ३८ ॥
3.1.38
अनुष्टुप्
चुलकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा ।चारकोऽश्वादिपाले स्याद्बन्धे संचारकेऽपि च ॥ ३९ ॥
3.1.39
अनुष्टुप्
चित्रकं चित्रकमये द्रुमौषधिविशेषयोः ।चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः ॥ ४० ॥
3.1.40
अनुष्टुप्
चुल्लकी कुण्डिकाभेदे शिशुमारे कुलान्तरे ।चूतकः कूप आम्रे च चूलिका नाटकान्तरे ॥ ४१ ॥
3.1.41
अनुष्टुप्
करिणः कर्णमूले च जनकः पितृभूपयोः ।जम्बुको वरुणे फेरौ जतुकं हिङ्गुलाक्षयोः ॥ ४२ ॥
3.1.42
अनुष्टुप्
जतुका च चर्मचटिका जीवको वृद्धिजीविनि ।क्षपणे प्राणके पीतसालसेवकयोर्द्रुमे ॥ ४३ ॥
3.1.43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च ।झिल्लीका झिल्लिकेव स्याच्चीर्यां रुच्यातपस्य च ॥ ४४ ॥
3.1.44
अनुष्टुप्
विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे ।द्रुमभेदे तण्डकस्तु समस्तपदजातके ॥ ४५ ॥
3.1.45
अनुष्टुप्
तरुस्कन्धे वेश्मदारुमायाबहुलयोरपि ।फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ ४६ ॥
3.1.46
अनुष्टुप्
दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि ।तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके ॥ ४७ ॥
3.1.47
अनुष्टुप्
तिलकं रुचके क्लोम्नि त्रिशङ्कुः शलभे नृपे ।मार्जारे च तुरुष्कस्तु देशे श्रीवाससिह्लयोः ॥ ४८ ॥
3.1.48
अनुष्टुप्
तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी ।दर्शको दर्शयितरि प्रतीहारप्रवीणयोः ॥ ४९ ॥
3.1.49
अनुष्टुप्
द्रावकस्तु शिलाभेदे स्याद्घोषकविदग्धयोः ।दारको भेदके पुत्रे दीपकः स्यादलङ्कृतिः ॥ ५० ॥
3.1.50
अनुष्टुप्
दीपकौ दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके ।मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ५१ ॥
3.1.51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 शि (wrong syllable)
धनाढ्ये धनिका वध्वां धेनुका धेनुरित्यपि ।धैनुकं धेनुसंहत्यां करणेऽपि च योषिताम् ॥ ५२ ॥
3.1.52
अनुष्टुप्
नरकौ दैत्यनिरयौ नन्दकः कुलपालके ।हर्षके विष्णुखड्गे च नर्तकः केलके नटे ॥ ५३ ॥
3.1.53
अनुष्टुप्
द्विपे पोटगले चापि नर्तकी लासिका द्विपी ।नालीकोऽङ्गे शरे शल्ये नालीकं पद्मतद्वने ॥ ५४ ॥
3.1.54
अनुष्टुप्
नायको मणिभिन्नेतृप्रधानेष्वथ नालिका ।नाले काले चूर्णरन्ध्रे विवरे वेणुभाजने ॥ ५५ ॥
3.1.55
अनुष्टुप्
निपाकः पचने स्वेदासत्कर्मफलयोरपि ।निर्मोको व्योम्नि सन्नाहे मोक्षके सर्पकञ्चुके ॥ ५६ ॥
3.1.56
अनुष्टुप्
नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि ।पराकस्तु व्रते खड्गे प्रसेकः सेचने च्युतौ ॥ ५७ ॥
3.1.57
अनुष्टुप्
पर्यङ्को मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः ।पद्मकं पद्मकोष्ठेभबिन्दुजालकयोरपि ॥ ५८ ॥
3.1.58
अनुष्टुप्
पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि पथ्यते ।पताकाङ्कध्वजे केतौ सौभाग्ये नाटकांशके ॥ ५९ ॥
3.1.59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
पातुको जलमातङ्गे पतयालुप्रपातयोः ।प्राणको जीवकतरौ सत्त्वजातीयबोलयोः ॥ ६० ॥
3.1.60
अनुष्टुप्
पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके ।वाद्यभेदे महाकिष्कौ मूलस्यावयवेऽपि च ॥ ६१ ॥
3.1.61
अनुष्टुप्
पालङ्कः शाकभेदे स्यात्सल्लक्यां वाजिपक्षिणि ।पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ॥ ६२ ॥
3.1.62
अनुष्टुप्
भल्लातके विडङ्गे च शोधयितृनरेऽपि च ।पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयोः ॥ ६३ ॥
3.1.63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ध (wrong syllable)
प्रियकस्तु चञ्चरीके नीपे काश्मीरजन्मनि ।प्रियङ्गौ चित्रहरिणे पीतशालतरावपि ॥ ६४ ॥
3.1.64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते ।पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च ॥ ६५ ॥
3.1.65
अनुष्टुप्
पिण्याकः कुङ्कुमे हिङ्गौ सिह्लके तिलचूर्णके ।पुलको गजान्नपिण्डे रोमाञ्जे प्रस्तरान्तरे ॥ ६६ ॥
3.1.66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
असुराज्यां मणिदोषे गल्वर्के तालके कृमौ ।पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः ॥ ६७ ॥
3.1.67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 णि (wrong syllable)
पुष्पकं मृत्तिकाङ्गारशकट्यां रत्नकङ्कणे ।कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने ॥ ६८ ॥
3.1.68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
लोहकांस्ये रीतिकायां पुत्रकः शरभे शठे ।शैवे वृक्षप्रभेदे च पुत्रिका यावतूलिके ॥ ६९ ॥
3.1.69
अनुष्टुप्
पाञ्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूडके ।पूर्णिका नासिकार्दिन्यां पृथुकश्चिपिटेऽर्भके ॥ ७० ॥
3.1.70
अनुष्टुप्
पृदाकुश्चित्रकव्याघ्रवृश्चिकेषु सरीसृपे ।पेचकः करिलाङ्गूलमूले घूकेऽथ पेटकम् ॥ ७१ ॥
3.1.71
अनुष्टुप्
मञ्जूषायां समूहे च बहुको जलखातके ।दात्यूहे कर्कटेऽर्के च बन्धूकः पीतसालके ॥ ७२ ॥
3.1.72
अनुष्टुप्
बन्धुजीवे बन्धकस्तु सत्यङ्कारेऽथ बन्धकी ।स्वैरिण्यां च करिण्यां च बालिका कर्णभूषणे ॥ ७३ ॥
3.1.73
अनुष्टुप्
पिछोलायां वालुकायां बालायां बालकः पुनः ।शिशौ मूर्खेऽश्वगजयोर्वालधौ भस्मकं रुजि ॥ ७४ ॥
3.1.74
अनुष्टुप्
विडङ्गे कलधौते च भ्रामकः फेरुधूर्त्तयोः ।सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ७५ ॥
3.1.75
अनुष्टुप्
महालक्षणसम्पूर्णे पूरुषे करपत्रके ।रोहिते शाकभेदे च भूतीकं कट्फलौषधौ ॥ ७६ ॥
3.1.76
अनुष्टुप्
यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च ।भूमिका रचनायां तु रूपान्तरपरिग्रहे ॥ ७७ ॥
3.1.77
अनुष्टुप्
मशकः क्षुद्ररुग्जन्तुभेदयोर्मधुकं त्रपुः ।मधुयष्टिश्च मधुको बन्दिश्रीवदपक्षिणोः ॥ ७८ ॥
3.1.78
अनुष्टुप्
मण्डूकी मण्डूकपर्ण्यां मण्डूकौ भेकशोणकौ ।मल्लिको हंसभेदे स्यान्मल्लिका कुसुमान्तरे ॥ ७९ ॥
3.1.79
अनुष्टुप्
मीने मृत्पात्रभेदे च मातृका करणेश्वरे ।मातृवर्णसमाम्नायोपमातृष्वथ मालिका ॥ ८० ॥
3.1.80
अनुष्टुप्
पक्षिमल्ले सरिद्भेदे ग्रैवेये पुष्पदामनि ।मामकं तु मदीये स्यान्मामको मातुले स्मृतः ॥ ८१ ॥
3.1.81
अनुष्टुप्
मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके ।मोचको मोक्तृकदलीशिग्रुद्रुमविरागिषु ॥ ८२ ॥
3.1.82
अनुष्टुप्
मोदको हर्षुके खाद्ये यमको यमजे व्रते ।यमकं वागलङ्कारे याजको राजकुञ्जरे ॥ ८३ ॥
3.1.83
अनुष्टुप्
याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ।संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्जले ॥ ८४ ॥
3.1.84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
रजकौ धावकशुक्रौ रसिका कटिसूत्रके ।रसनायां रसालायां रल्लकः कम्बले स्मृतः ॥ ८५ ॥
3.1.85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
तथैव कम्बलमृगे रात्रकं पञ्चरात्रके ।रात्रकस्तु पण्यवधूगृहान्तर्वर्षवासिनि ॥ ८६ ॥
3.1.86
अनुष्टुप्metre not read in every line
राजिका पङ्क्तौ रेखायां केदारे राजसर्षपे ।रुचकं तु मातुलिङ्गे निष्के सौवर्चलेऽपि च ॥ ८७ ॥
3.1.87
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ङ्क्तौ (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
रोचनायां विडङ्गे च मङ्गलद्रव्यदन्तयोः ।अश्वस्याभरणे माल्ये प्रोत्कटेऽपि प्रकीर्तितः ॥ ८८ ॥
3.1.88
अनुष्टुप्
रूपकं नाटके प्रोक्तं काव्यालङ्कारधूर्त्तयोः ।रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥ ८९ ॥
3.1.89
अनुष्टुप्
लम्पाको लम्पटे देशे लासकौ केकिनर्तकौ ।लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ॥ ९० ॥
3.1.90
अनुष्टुप्
कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे ।निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूश्लथचर्मणि ॥ ९१ ॥
3.1.91
अनुष्टुप्
वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे ।वञ्चको जम्बुके गेहनकुले खलधूर्तयोः ॥ ९२ ॥
3.1.92
अनुष्टुप्
वल्मीको नाकुवाल्मिक्यो रोगभेदेऽथ वर्णकः ।विलेपने मलयजे चारणे वसुकं पुनः ॥ ९३ ॥
3.1.93
अनुष्टुप्
रोमके वसुकस्तु स्याच्छिवमल्ल्यर्कपर्णयोः ।व्यलीकं व्यङ्ग्यवैलक्ष्याप्रियाकार्येषु पीडने ॥ ९४ ॥
3.1.94
अनुष्टुप्
वार्षिकं त्रायमाणायां वर्षाभवेऽथ वाल्हिकः ।देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ॥ ९५ ॥
3.1.95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
वाल्हीकवद्वार्द्धकं तु वृद्धत्वे वृद्धकर्मणि ।वृद्धानां समवाये च वालुकं हरिवालुके ॥ ९६ ॥
3.1.96
अनुष्टुप्
वालुका तु सिकतासु वितर्कः संशयोहयोः ।विपाकः परिणामे स्याद् दुर्गतिस्वादुनोरपि ॥ ९७ ॥
3.1.97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
विवेकः पुनरेकान्ते जलद्रोणीविचारयोः ।वृषाङ्कः साधुभल्लातशङ्करेषु महल्लके ॥ ९८ ॥
3.1.98
अनुष्टुप्
वृश्चिकस्तु द्रुणे राशावौषधे शूककीटके ।वैजिकं कारणे शिग्रुतैले च वैजिकोऽङ्कुरे ॥ ९९ ॥
3.1.99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शङ्खकं वलये कम्बौ शङ्खकस्तु शिरोरुजि ।शम्याकस्तु विपाके स्याद्याचके चतुरङ्गुले ॥ १०० ॥
3.1.100
अनुष्टुप्
शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः ।शलाका शारिका शल्यः श्वाविदालेख्यकूर्चिका ॥ १०१ ॥
3.1.101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
छत्रपञ्जरकाष्ठीषु शल्लकी श्वाविधि द्रुमे ।शार्ककः स्याद्दुग्धफेने शर्करायाश्च पिण्डके ॥ १०२ ॥
3.1.102
अनुष्टुप्
शिशुकः पादपे बाले शिशुमारेऽथ शीतकः ।शीतकालेऽलसे सुस्थे शूककः प्रावटे रसे ॥ १०३ ॥
3.1.103
अनुष्टुप्
स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः ।स्यमीकः पादपे नाकौ स्यात् स्यमीका तु नीलिका ॥ १०४ ॥
3.1.104
अनुष्टुप्
सरको मदिरापात्रे मदिरापानमद्ययोः ।सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥ १०५ ॥
3.1.105
अनुष्टुप्
सम्पर्कः सुरते पृक्तौ सायको बाणखड्गयोः ।स्थासको हस्तबिम्बे स्यात्करकादेश्च बुद्बुदे ॥ १०६ ॥
3.1.106
अनुष्टुप्
सूतकं जन्मनि रसे सूचकः शुनि दुर्ज्जने ।कथके सीवनद्रव्ये मार्जारे वायसेऽपि च ॥ १०७ ॥
3.1.107
अनुष्टुप्
सृदाकुर्वज्रे दावाग्नौ प्रतिसूर्ये समीरणे ।सेवकोऽनुगे प्रसेवे सेचकः सेक्तृमेघयोः ॥ १०८ ॥
3.1.108
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ज्रे (wrong syllable); pāda 3, syllable 4 नु (wrong syllable)
हारको गद्यविज्ञानभिदोः कितवचौरयोः ।हुडुक्को मदमत्ते स्याद्दात्यूहे वाद्यभिद्यपि ॥ १०९ ॥
3.1.109
अनुष्टुप्
हेरुकस्तु महाकालगणबुद्धविशेषयोः ।
3.1.110