कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरणान्ताः

इति द्विस्वरढान्ताः ।

अणिराणिवदश्रौ स्यात्सीमन्यक्षाग्रकीलके ॥ १३० ॥
2.13.130
अणुर्व्रीह्यल्पयोरुष्णा ग्रीष्मदक्षातपाऽहिमाः ।ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ॥ १३१ ॥
2.13.131
अनुष्टुप्
ऋणं देये जलदुर्गे कणो घान्यांशलेशयोः ।कणा जीरकपिप्पल्योः कर्णश्चम्पापतौ श्रुतौ ॥ १३२ ॥
2.13.132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे ।व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः ॥ १३३ ॥
2.13.133
अनुष्टुप्
कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः ।कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ ॥ १३४ ॥
2.13.134
अनुष्टुप्
कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि ।कृष्णां तु मरिचे लोहे कोणो वीणादिवादने ॥ १३५ ॥
2.13.135
अनुष्टुप्
लगुडेऽश्रौ लोहिताङ्गे गणः प्रथमसंख्ययोः ।समूहे सैन्यभेदेऽथ गुणो ज्यासूदतन्तुषु ॥ १३६ ॥
2.13.136
अनुष्टुप्
रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये ।रुपादावप्रधाने च दोषान्यस्मिन् विशेषणे ॥ १३७ ॥
2.13.137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दौ (wrong syllable)
गेष्णो नटे गायने च घ्राणं तु घ्रातघोणयोः ।घृणा तु जुगुप्सायां करुणायां घृणिः पुनः ॥ १३८ ॥
2.13.138
metre not recognisednearly अनुष्टुप्
अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु ।चूर्णं क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु ॥ १३९ ॥
2.13.139
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि ।झूर्णिः क्रमुकभेदे स्याद्दुष्टदैवश्रुतावपि ॥ १४० ॥
2.13.140
अनुष्टुप्
त्राणं त्राते रक्षणे च त्रायमाणौषधावपि ।तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥ १४१ ॥
2.13.141
अनुष्टुप्
आत्मत्यागिनि तिग्मे च तूणी नीलीनिषङ्गयोः ।द्रुणः स्याद्वृश्चिके भृङ्गे द्रुणं चापकृपाणयोः ॥ १४२ ॥
2.13.142
अनुष्टुप्
द्रुणी कूर्म्यां जलद्रोण्यां देष्णो दातरि दुर्दमे ।द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥ १४३ ॥
2.13.143
अनुष्टुप्
नौभेदे शैलसंधौ च पणः कार्षापणे ग्लहे ।विक्रय्यशाकादिबद्धमुष्टौ मूल्ये भृतौ धने ॥ १४४ ॥
2.13.144
अनुष्टुप्
व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ ।पर्णस्त्रिपत्रे पर्णं तु पत्त्रे प्राणोऽनिले बले ॥ १४५ ॥
2.13.145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते ।पार्ष्णिः कुम्भ्यां चमूपृष्टे पादमूलोन्मदस्त्रियोः ॥ १४६ ॥
2.13.146
अनुष्टुप्
पूर्णः कृत्त्स्ने पूरिते च फाणिर्गुडकरम्बयोः ।बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे ॥ १४७ ॥
2.13.147
अनुष्टुप्
बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे ।अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १४८ ॥
2.13.148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त्व (wrong syllable)
मेढ्राग्रेऽलिञ्जरे रत्ने मोणः सर्पकरण्डके ।वाने नक्रमक्षिकायां रणः कोणे क्वणे युधि ॥ १४९ ॥
2.13.149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्र (wrong syllable)
रेणुर्धूल्यां पर्पटके वर्णः स्वर्णे व्रते स्तुतौ ।रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ १५० ॥
2.13.150
अनुष्टुप्
भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः ।अङ्गरागे च वर्णं तु कुङ्कुमे वाणिरम्बुदे ॥ १५१ ॥
2.13.151
अनुष्टुप्
व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् ।वृष्णिर्मेषे यादवे च वेणी सेतुप्रवाहयोः ॥ १५२ ॥
2.13.152
अनुष्टुप्
देवताडे केशबन्धे वेणुर्वंशे नृपान्तरे ।शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ १५३ ॥
2.13.153
अनुष्टुप्
शोणो नदे रक्तवर्णे श्योनाकेऽग्नौ हयान्तरे ।स्थाणुः कीले हरे स्थूणा सूर्म्यां स्तम्भे रुगन्तरे ॥ १५४ ॥
2.13.154
अनुष्टुप्