कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरषान्ताः

इति चतुःस्वरशालन्ताः ।

अम्बरीषो नृपे सूर्य युधि भ्राष्टकिशोरयोः ।आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे ॥ ३३० ॥
4.25.330
अनुष्टुप्
रथस्याधो दारुणि चाऽनिमिषः सुरमत्स्ययोः ।अनुतर्षोऽअभिलाषे स्यात्तृष्णाचषकयोरपि ॥ ३३१ ॥
4.25.331
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अलम्बुषश्छर्दनेऽलम्बुषा स्वःपण्ययोषिति ।गण्डीर्यां किम्पुरुषस्तु किंनरे लोकभिद्यपि ॥ ३३२ ॥
4.25.332
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रु (wrong syllable)
देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ।नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः ॥ ३३३ ॥
4.25.333
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
परिवेषः परिवृत्तौ परिधौ परिवेषणे ।पारिवेषः स्यादवाच्ये निनादे जलदघ्वनौ ॥ ३३४ ॥
4.25.334
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
पलङ्कषो यातुघाने पलङ्कषा तु किंशुके ।गोक्षुरे गुग्गुलौ लाक्षारास्नामुण्डीरिकासु च ॥ ३३५ ॥
4.25.335
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः ।महाघोषो महाशब्दे स्यान्महाघोषमापणे ॥ ३३६ ॥
4.25.336
अनुष्टुप्
पहाघोषा श्रृङ्ग्योषघ्यां राजवृक्षः पियालके ।सुवर्णालुतरौ वातरूषः शक्रशरासने ॥ ३३७ ॥
4.25.337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रृ (wrong syllable)
वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ।तार्क्ष्ये विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे ॥ ३३८ ॥
4.25.338
अनुष्टुप्
भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे ।
4.25.10