All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरखान्ताः
इति द्विस्वरकान्ताः ।
नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः ।न्युङ्खः सामविशेषस्य षडोंकार्यामतिप्रिये ॥ २२ ॥
2.2.22
अनुष्टुप्
पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपि ।प्रेङ्खा पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥ २३ ॥
2.2.23
अनुष्टुप्
मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः ।रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ २४ ॥
2.2.24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ख (wrong syllable)
लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि ।वीङ्खा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥ २५ ॥
2.2.25
अनुष्टुप्
शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि ।शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ २६ ॥
2.2.26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धि (wrong syllable)
शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः ।ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि ॥ २७ ॥
2.2.27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
सखा सहाये मित्त्रे च सुखं त्रिदिवशर्मणोः ।सुखा प्रचेतसः पुर्याम्
2.2.7
अनुष्टुप्metre not read in every line