All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
हेमचन्द्राचार्य · अनेकार्थसङ्ग्रहो नाम कोशः आचार्यश्रीहेमचन्द्रेण विरचितः । · जयकृष्णदास-हरिदासगुप्तः - चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी । · 1985 V.S. · श्रीपण्डितघनानन्दपाण्डेयेन पल्लवग्रामवासिना तथा श्रीपण्डितजनार्दनज्योतिर्विदा तारादत्तिना चीनाखनीवासिना च कूर्माचलपर्वतीयाभ्याम् उद्धृत्य संशोध्याऽकारादिसूच्या संवेष्ट्य मुद्रणायाऽर्पितः । श्रीमता पण्डितजगन्नाथशास्त्रिहोशिङ्गमहोदयेन साहित्योपाध्यायेन सम्पादितः
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरगान्ताः
इति चतुःस्वरखान्ताः ।
अपवर्गस्त्यागमोक्षयोः ॥ ४७ ॥
4.3.47
क्रियावसानसाफल्येऽप्यभिषङ्गः पराभवे ।आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे ॥ ४८ ॥
4.3.48
अनुष्टुप्
वृके जन्तौ चोपरागो राहुग्रस्तार्कचन्द्रयोः ।विगाने दुर्नये राहावुपसर्ग उपद्रवे ॥ ४९ ॥
4.3.49
अनुष्टुप्
प्रादौ रोगप्रभेदे च कटभङ्गो नृपात्यये ।हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये ॥ ५० ॥
4.3.50
अनुष्टुप्
स्वातन्त्र्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ।लेखहारे मल्लनागो वात्स्यायनसुरेभयोः ॥ ५१ ॥
4.3.51
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ध्व (wrong syllable)
समायोगस्तु संयोगे समवाये प्रयोजने ।सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च ॥ ५२ ॥
4.3.52
अनुष्टुप्