All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
पञ्चस्वरकाण्डः · पञ्चस्वररान्ताः
इति पञ्चस्वरयान्ताः ।
उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥ ४५ ॥
5.16.45
कपिलधारा त्रिदशापगायां तीर्थभिद्यपि ।तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ ४६ ॥
5.16.46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 पि (wrong syllable)
तालीसपत्रं तु तामलक्यां तालीसके क्वचित् ।पादचत्वरः करके परदोषैकभाषिणि ॥ ४७ ॥
5.16.47
metre not recognised
सैकते छगलेऽश्वत्थद्रुमेऽथ पांशुचामरः ।वर्धापके प्रशंसायां दूर्वाञ्चिततटीभुवि ॥ ४८ ॥
5.16.48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
पुरोटोधूलिगुच्छे पीतकावेरं तु कुङ्कुमे ।पित्तले वस्वौकसारा त्विन्द्रस्य धनदस्य च ॥ ४९ ॥
5.16.49
अनुष्टुप्
पुरीनलिन्यौ विप्रतिसारस्त्वनुशये क्रुधि ।कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥ ५० ॥
5.16.50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति ।समभिहारो भृशार्थे पौनःपुन्येऽपि कथ्यते ॥ ५१ ॥
5.16.51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भि (wrong syllable)