All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरशान्ताः
इति चतुःस्वरवान्ताः ।
अपदेशस्तु कारणे ।व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः ॥ ३२३ ॥
4.24.323
अनुष्टुप्metre not read in every line
पतने चाश्रयाशस्तु वह्नावाश्रयनाशके ।उपदंशो विदंशे स्यान्मेढरोगेऽपि कीर्तितः ॥ ३२४ ॥
4.24.324
अनुष्टुप्
उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके ।खण्डपर्शुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ ३२५ ॥
4.24.325
अनुष्टुप्
खण्डामलकभैषज्ये जीवितेशः प्रिये यमे ।जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥ ३२६ ॥
4.24.326
अनुष्टुप्
करणे वरुणास्त्रे च परिवेशस्तु वेष्टने ।भानोः सविधबिम्बे च प्रतिष्कशः पुरोगमे ॥ ३२७ ॥
4.24.327
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्क (wrong syllable)
वार्ताहरे सहाये च पञ्चदशी तु पूर्णिमा ।दर्श पादपाशी तु खट्टिकायामुदाहृता ॥ ३२८ ॥
4.24.328
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
शृङ्खलाकटके वापि पुरोडाशो हविर्भिदि ।हुतशेषे सोमरसे चमस्यां पिष्टकस्य च ॥ ३२९ ॥
4.24.329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सो (wrong syllable)