All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
हेमचन्द्राचार्य · अनेकार्थसङ्ग्रहो नाम कोशः आचार्यश्रीहेमचन्द्रेण विरचितः । · जयकृष्णदास-हरिदासगुप्तः - चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी । · 1985 V.S. · श्रीपण्डितघनानन्दपाण्डेयेन पल्लवग्रामवासिना तथा श्रीपण्डितजनार्दनज्योतिर्विदा तारादत्तिना चीनाखनीवासिना च कूर्माचलपर्वतीयाभ्याम् उद्धृत्य संशोध्याऽकारादिसूच्या संवेष्ट्य मुद्रणायाऽर्पितः । श्रीमता पण्डितजगन्नाथशास्त्रिहोशिङ्गमहोदयेन साहित्योपाध्यायेन सम्पादितः
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरढान्ताः
इति त्रिस्वरडान्ताः ।
अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ॥ १९३ ॥
3.11.193
आषाढो व्रतिनां दण्डे मासे च मलयाचले ।उपोढ ऊढे निकटेऽप्युदूढः पीवरोढयोः ॥ १९४ ॥
3.11.194
अनुष्टुप्
प्ररूढो जठरे वृद्धे प्रगाठो दृढकृच्छ्रयोः ।वारूढः शम्बले वस्त्राञ्चलेऽग्नौ पञ्जरेऽररे ॥ १९५ ॥
3.11.195
अनुष्टुप्
विरूढोऽङ्कुरिते जाते विगूढो गुह्यगुप्तयोः ।समूढं पुञ्जिते भूग्ने सद्योजातेऽनुपप्लवे ॥ १९६ ॥
3.11.196
अनुष्टुप्
संरूढोऽङ्कुरिते प्रौढे समीढो मूत्रिते घने ।
3.11.5