All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरचान्ताः
इति द्विस्वरघान्ताः ।
ऽर्चा पूजा प्रतिमाऽपि च ।कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीष्पतेः ॥ ५४ ॥
2.5.54
अनुष्टुप्metre not read in every line
कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि ।काञ्ची गुञ्जामेखलयोः पुर्यां कूर्चो विकत्थने ॥ ५५ ॥
2.5.55
अनुष्टुप्
श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ ।चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि ॥ ५६ ॥
2.5.56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श्रु (wrong syllable)
चंचुः पंचांङ्गुले त्रोट्यां नीचः पामरखर्वयोः ।मोचा शाल्मलिकदल्योर्मोचः शिग्रौ रुचिर्द्युतौ ॥ ५७ ॥
2.5.57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
स्पृहाऽभिष्वङ्गशोभासु वचः शुके वचौषधौ ।शारिकायां वीच्याल्यूर्म्योरवकाशे सुखाल्पयोः ॥ ५८ ॥
2.5.58
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable); pāda 3, syllable 5 वी (wrong syllable)
शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनले ।ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि ॥ ५९ ॥
2.5.59
अनुष्टुप्
श्रृङ्गारे सूच्यभिनये व्यधने करणे स्त्रियाम् ।
2.5.7