कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरधान्ताः

इति त्रिस्वरदान्ताः ।

अगाधोऽस्ताघरन्ध्रयोः ।अवधिः स्यादबधाने कालसीमबिलेष्वपि ॥ ३७० ॥
3.16.370
metre not recognised
आनद्धौ बद्धमुरजावाविद्धः क्षिप्तवक्रयोः ।आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्रये ॥ ३७१ ॥
3.16.371
अनुष्टुप्
संहननेऽप्युपाधिस्तु धर्मध्याने विशेषणे ।कुटुम्बव्यापृते छद्मन्युपधिर्व्याजचक्रयोः ॥ ३७२ ॥
3.16.372
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
कबन्धं सलिले रुण्डे कबन्धो राहुरक्षसोः ।दुर्विधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ३७३ ॥
3.16.373
अनुष्टुप्
शम्यां व्यामे न्यग्रोधी तु मोहनाख्यौषधावपि ।वृषपर्ण्यां निषधस्तु कठिने पर्वते स्वरे ॥ ३७४ ॥
3.16.374
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्य (wrong syllable); pāda 3, syllable 6 ष (wrong syllable)
देशतद्राजयोश्चापि निरोधो नाशरोधयोः ।प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ३७५ ॥
3.16.375
अनुष्टुप्
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ ३७६ ॥
3.16.376
अनुष्टुप्
वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्षली ।यूथीभाषविशेषश्च विबुधः पण्डिते सुरे ॥ ३७७ ॥
3.16.377
अनुष्टुप्
विश्रब्धोऽनुद्भटे शान्ते विश्वस्तात्यर्थयोरपि ।विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ३७८ ॥
3.16.378
अनुष्टुप्
सम्बाधः सङ्कटे योनौ संरोधः क्षेपरोधयोः ।सन्नद्धो वर्मिते व्यूढे समाधिः स्यात्समर्थने ॥ ३७९ ॥
3.16.379
अनुष्टुप्
चित्तैकाग्र्यनियमयोर्मौने सन्निधिरन्तिके ।प्रत्यक्षे चाथ संसिद्धिः सम्यक्सिद्धिस्वभावयोः ॥ ३८० ॥
3.16.380
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्र्य (wrong syllable)