कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरमान्ताः

इति चतुःस्वरभान्ता ।

अभ्यागमः समरेऽन्तिके ॥ २२० ॥
4.19.220
घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे ।अनुपमा सुप्रतीकस्त्रियामुपगमः पुनः ॥ २२१ ॥
4.19.221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे ।उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ २२२ ॥
4.19.222
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable); pāda 4, syllable 3 चि (wrong syllable)
आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचत्वरे ।कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ॥ २२३ ॥
4.19.223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
प्लवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे ।सामर्थ्ये चाऽभियोगे च महापद्मः पुनर्निधौ ॥ २२४ ॥
4.19.224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते ।जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ २२५ ॥
4.19.225
अनुष्टुप्