कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरवान्ताः

इति द्विस्वरलान्ताः ।

अविर्मूषिककम्बले ॥ ५०५ ॥
2.27.505
मेषे रवौ पर्वते च स्यादूर्ध्वं तु समुत्थिते ।उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे ॥ ५०६ ॥
2.27.506
अनुष्टुप्
क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि ।विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥ ५०७ ॥
2.27.507
अनुष्टुप्
किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः ।खर्वह्रस्वौ न्यग्वामनौ ग्रीवे शिरोधितच्छिरे ॥ ५०८ ॥
2.27.508
अनुष्टुप्metre not read in every line
छविस्तु रुचि शोभायां जवः स्याद्वेगवेगिनोः ।जवौड्रपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः ॥ ५०९ ॥
2.27.509
अनुष्टुप्
जीवः स्यात्त्रिदशाचार्ये द्रुमभेदे शरीरिणि ।जवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥ ५१० ॥
2.27.510
अनुष्टुप्
शिञ्जते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि ।वाद्यभेदे स्वरूपे च द्रवो विद्रवनर्मणोः ॥ ५११ ॥
2.27.511
अनुष्टुप्
प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे ।रहस्ये मिथुने युग्मे दवदावौ वनानले ॥ ५१२ ॥
2.27.512
अनुष्टुप्
वने दर्वी फणातर्व्वोर्दार्वी स्याद्देवदारुणि ।हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥ ५१३ ॥
2.27.513
अनुष्टुप्
देवं हृषीके देवस्तु नृपतौ तोयदे सुरे ।देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥ ५१४ ॥
2.27.514
अनुष्टुप्
धवो धूर्त्ते नरे पत्यौ द्रुभेदेऽथ ध्रुवो वटे ।वसुयोगभिदोरातौ शङ्कावुत्तानपादजे ॥ ५१५ ॥
2.27.515
अनुष्टुप्
स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः ।ध्रुवा मूर्वाशालिपर्ण्योः स्रुग्भेदे गीतिभिद्यपि ॥ ५१६ ॥
2.27.516
अनुष्टुप्
नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रबन्धने ।मूलद्रव्ये परिपणे प्लवः प्लक्षे प्लुतौ कपौ ॥ ५१७ ॥
2.27.517
अनुष्टुप्
शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः ।क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५१८ ॥
2.27.518
अनुष्टुप्
जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि ।पक्वं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५१९ ॥
2.27.519
अनुष्टुप्
कक्षाधोवयवे वक्रोपायपर्शुसमूहयोः ।प्राध्वं दूरपथे प्रह्वे बन्धे पूर्वं तु पूर्वजे ॥ ५२० ॥
2.27.520
अनुष्टुप्
प्रागग्रे श्रुतिभेदे च भवः सत्ताप्तिजन्मसु ।रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५२१ ॥
2.27.521
अनुष्टुप्
स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु ।चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे ॥ ५२२ ॥
2.27.522
अनुष्टुप्
शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति ।नील्यां मेकलकन्यायां लवः कालभिदिच्छिदि ॥ ५२३ ॥
2.27.523
अनुष्टुप्
विलासे रामजे लेशे लट्वा पक्षिकुसुम्भयोः ।लघ्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ ५२४ ॥
2.27.524
अनुष्टुप्
विश्वाः सुरेषु विश्वन्तु शुण्ठ्यां भुवनकृत्स्नयोः ।विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले ॥ ५२५ ॥
2.27.525
अनुष्टुप्
शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे ।पुण्डरीके द्रुमे कीले शिवा झाटामलोमयोः ॥ ५२६ ॥
2.27.526
अनुष्टुप्
फेरौ शम्यां पथ्याधात्र्योः शिविर्भुर्जे नृपान्तरे ।शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ॥ ५२७ ॥
2.27.527
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥ ५२८ ॥
2.27.528
अनुष्टुप्
सान्त्व सामनि दाक्षिण्ये स्रुवा मूर्वा स्रुवः स्रुचि ।हवस्तु सप्ततन्तौ स्यान्निदेशाह्वानयोरपि ॥ ५२९ ॥
2.27.529
अनुष्टुप्