All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरयान्ताः
इति चतुःस्वरमान्ताः ।
अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ २२६ ॥
4.20.226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 नु (wrong syllable)
अवसायोपयुक्तान्ये(?) समाप्तौ निश्चयेऽपि च ।अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे ॥ २२७ ॥
4.20.227
अनुष्टुप्
चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ ।जलाशयमुशीरे स्याज्जलाशयो जलाश्रये ॥ २२९ ॥
4.20.229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ।तृणशून्यं मल्लिकायां केतकीशाखिनः फले ॥ २३० ॥
4.20.230
अनुष्टुप्
धनञ्जयो नागभेदे ककुभे देहमारुते ।पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये ॥ २३१ ॥
4.20.231
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 नि (wrong syllable)
प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः ।परिधायः परिकरे जलस्थाननितम्बयोः ॥ २३२ ॥
4.20.232
अनुष्टुप्metre not read in every line
पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ।पौरुषेयं पुरुषेण कृतेऽप्यवहिते वधे ॥ २३३ ॥
4.20.233
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable); pāda 3, syllable 6 रु (wrong syllable)
समूहे च विकारे च फलोदयो द्युलाभयोः ।बिलेशयो मूषिकेऽहौ भागधेयः पुनः करे ॥ २३४ ॥
4.20.234
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
दायादे भागधेयं तु भाग्ये महालयः पुनः ।तीर्थे विहारपरमात्मनोर्महोदयं पुरे ॥ २३५ ॥
4.20.235
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable); pāda 4, syllable 3 र्म (wrong syllable)
महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्घके ।पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः ॥ २३६ ॥
4.20.236
अनुष्टुप्
शरीरशोधने रौहिणेयो वत्से बुधे बले ।वैनतेयस्तु गरुडे स्याच्चण्डांशोश्च सारथौ ॥ २३७ ॥
4.20.237
अनुष्टुप्
समुच्छ्रयो वैरोन्नत्योः समुदायो गमे रणे ।समुदयस्तूद्गमेऽपि सम्परायस्तु संयुगे ॥ २३८ ॥
4.20.238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
आपद्युत्तरकाले च स्यात्समाह्वय आहवे ।पशुभिः पक्षिभिर्द्यूते स्थूलोच्चयो वरण्डके ॥ २३९ ॥
4.20.239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
गजानां मध्यमगते गण्डाश्माकार्त्स्न्ययोरपि ।हिरण्मयो लोकधातौ सौवर्णे-
4.20.15
अनुष्टुप्metre not read in every line