कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरडान्ताः

इति द्विस्वरठान्ताः ।

इडेलावत् स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ १०८ ॥
2.11.108
काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे ।सहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥ १०९ ॥
2.11.109
अनुष्टुप्
कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते ।देवतोयाशये स्थाल्यां क्ष्वेडः कर्णामये ध्वनौ ॥ ११० ॥
2.11.110
अनुष्टुप्
विषे वक्रे क्ष्वेडा सिंहनादवंशशलाकयोः ।क्ष्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १११ ॥
2.11.111
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्ष्वे (wrong syllable); pāda 3, syllable 4 हि (wrong syllable)
क्रोडः कोले शनौ क्रोडमङ्के खण्डोऽर्द्ध ऐक्षवे ।मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥ ११२ ॥
2.11.112
अनुष्टुप्
कपोले गण्डके योगे वाजिभूषणबुद्वुदे ।गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥ ११३ ॥
2.11.113
अनुष्टुप्
गुडः कुञ्जरसंनाहे गोलकेक्षुविकारयोः ।गुडा तु गुडिकास्नुह्योर्गोण्डः स्याद्वृद्धनाभिके ॥ ११४ ॥
2.11.114
अनुष्टुप्
पामरजातौ चण्डस्तु यमदासेऽतिकोपने ।तीव्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ ११५ ॥
2.11.115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 म (wrong syllable)
चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः ।बाहुभूषावलभ्योश्च चोडः कञ्चुकदेशयोः ॥ ११६ ॥
2.11.116
अनुष्टुप्
जडो मूर्खे हिमाघ्राते जडा स्याच्छूकशिम्बिका ।ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ॥ ११७ ॥
2.11.117
अनुष्टुप्
ताडी तालीदलतरौ दण्डः सैन्ये दमे यमे ।मानव्यूहग्रहभेदेष्वश्वेऽर्कानुचरे मथि ॥ ११८ ॥
2.11.118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः ।नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः ॥ ११९ ॥
2.11.119
अनुष्टुप्
नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये ।पण्डः षण्ढे पण्डा बुद्धौ पाण्डुः कुन्तीपतौ सिते ॥ १२० ॥
2.11.120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
पिण्डो वृन्दे जपापुष्पे गोलबोलेऽङ्गसिह्लयोः ।कवले पिण्डं तु वेश्मैकगेशे जीवनायसोः ॥ १२१ ॥
2.11.121
अनुष्टुप्
बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च ।पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥ १२२ ॥
2.11.122
अनुष्टुप्
भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने ।नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥ १२३ ॥
2.11.123
अनुष्टुप्
मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः ।शाके मण्डा चामलक्यां मुण्डो मण्डितशीर्षयोः ॥ १२४ ॥
2.11.124
अनुष्टुप्
राहौ दैत्यान्तरे रण्डा त्वाखुकर्णी मृतप्रिया ।व्याडो हिंस्रपशौ सर्पे शुण्डा करिकरः सुरा ॥ १२५ ॥
2.11.125
अनुष्टुप्
जलेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे ।शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः ॥ १२६ ॥
2.11.126
अनुष्टुप्
षडः पेयान्तरे भेदे षण्डः कानन इड्वरे ।
2.11.20