All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरतान्ताः
इति त्रिस्वरणान्ताः ।
अमृतं यज्ञशेषाम्बुसुधामोक्षेष्वयाचिते ॥ २४९ ॥
3.13.249
अन्नकाञ्चनयोर्जग्धौ खे स्वादुनि रसायने ।घृते हृद्ये गोचरे चाऽमृतो धन्वन्तरौ सुरे ॥ २५० ॥
3.13.250
अनुष्टुप्
षण्ढे लाजेष्वर्दितं तु वातव्याधौ हतेऽर्थिते ।अजितस्तीर्थकृद्भेदे बुद्धे विष्णावनिर्जिते ॥ २५२ ॥
3.13.252
अनुष्टुप्
अच्युतो द्वादशस्वर्गे केशवाऽभ्रष्टयोरपि ।अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः ॥ २५३ ॥
3.13.253
अनुष्टुप्
अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि ।विष्णौ शेषेऽप्यनन्ता तु गुडूची भूर्दुरालभा ॥ २५४ ॥
3.13.254
अनुष्टुप्
विशल्या लाङ्गली दूर्वा शारिवा हैमवत्यपि ।अश्मन्तमशुभे क्षेत्रे चुल्यामनवधौ मृतौ ॥ २५५ ॥
3.13.255
अनुष्टुप्
अमतिः काले चन्द्रे स्यादङ्कतिश्चिह्नवेधसोः ।अग्निहोत्रिण्यगस्तिर्द्रुमुन्योः स्याददितिर्भुवि ॥ २५६ ॥
3.13.256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ले (wrong syllable)
देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः ।आपातः पाते तत्कालेऽप्यदृतः सादरेऽर्चिते ॥ २५७ ॥
3.13.257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
आख्यातं भाषिते त्यादावाघ्रातं ग्रस्तशिङ्घिते ।आप्लुतः स्नातके स्नातेऽप्यावर्तः पयसां भ्रमे ॥ २५८ ॥
3.13.258
अनुष्टुप्
गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ।वातरोगेऽप्यथाऽऽस्फोतः कोविदारार्कपर्णयोः ॥ २६० ॥
3.13.260
अनुष्टुप्
आस्फोता गिरिकर्ण्यां तु वनमाल्यामथाऽऽचितः ।छादेते शकटोन्मेये पलानामयुतद्वये ॥ २६१ ॥
3.13.261
अनुष्टुप्
सङ्गृहीतेऽप्यथाऽऽयस्तः क्लिशिते तेजिते हते ।क्रुद्धे क्षिप्तेऽथाऽऽयतिः स्यात्प्रभावोत्तरकालयोः ॥ २६२ ॥
3.13.262
अनुष्टुप्
दैर्ध्यसङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि ।आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीम्नि च ॥ २६३ ॥
3.13.263
अनुष्टुप्
आसत्तिः सङ्गमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः ।आपद्यपीङ्गितं तु स्याच्चेष्टायां गमनेऽपि च ॥ २६४ ॥
3.13.264
अनुष्टुप्
उत्तप्तं चञ्चले शुष्कमांससन्तप्तयोरपि ।उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् ॥ २६५ ॥
3.13.265
अनुष्टुप्
वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूद्गतोक्तयोः ।उद्धृतं स्यादतुलिते परिभुक्तोज्झितेऽपि च ॥ २६६ ॥
3.13.266
अनुष्टुप्
उषितं व्युषिते प्लुष्टेऽप्युच्छ्रितं तूच्चजातयोः ।प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदद्विपे ॥ २६७ ॥
3.13.267
अनुष्टुप्
उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपि ।उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः ॥ २६८ ॥
3.13.268
अनुष्टुप्
उदन्तः साधौ वार्तायामुद्घातः समुपक्रमे ।मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च ॥ २६९ ॥
3.13.269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धौ (wrong syllable)
पादस्खलन उत्तुङ्गेऽप्युन्नतिस्तार्क्ष्ययोषिति ।उदग्रे च समृद्धौ चाप्येधतुर्नरि पावके ॥ २७० ॥
3.13.270
अनुष्टुप्
क्रन्दितो रुदिते हूतौ कलितं विदिताप्तयोः ।कपोतः पारावते स्यात्कवकाख्यविहङ्गमे ॥ २७१ ॥
3.13.271
अनुष्टुप्
कापोतं यामुने सर्ज्यां कपोतानाञ्च संहतौ ।किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि ॥ २७२ ॥
3.13.272
अनुष्टुप्
किराती कुट्टिनी गङ्गा कृतान्तोऽक्षेमकर्मणि ।सिद्धान्तयमदैवेषु गर्जितो मत्तकुञ्जरे ॥ २७३ ॥
3.13.273
अनुष्टुप्
गर्जितं जलदध्वाने ग्रन्थितं हतदृब्धयोः ।आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने ॥ २७४ ॥
3.13.274
अनुष्टुप्
गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि ।गोदन्तो हरिताले स्यात्सन्नद्धे दंशितेऽपि च ॥ २७५ ॥
3.13.275
अनुष्टुप्
गोपतिः शङ्करे षण्ढे नृपतौ त्रिदशाधिपे ।सहस्रकिरणे चापि ज्वलितौ दग्धभास्करौ ॥ २७६ ॥
3.13.276
अनुष्टुप्
जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः ।जीवन्त्यामिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ ॥ २७७ ॥
3.13.277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त्यु (wrong syllable)
जम्बूवप्रे जने लोके जामाता दुहितुः पतौ ।सूर्यावर्ते वल्लभे च जिमूतौ वासवेऽम्बुदे ॥ २७८ ॥
3.13.278
अनुष्टुप्
घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः ।जीवन्यां च गुडूच्यां च जीवातुर्जीवनौषधे ॥ २७९ ॥
3.13.279
अनुष्टुप्
जीविते च जृम्भितं तु प्रवृद्धे च विचेष्टिते ।जृम्भायां स्फुटिते चापि त्वरितं वेगतद्वतोः ॥ २८० ॥
3.13.280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ ।त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ॥ २८१ ॥
3.13.281
अनुष्टुप्
घुर्घुयामथ तृणता तृणत्वे कार्मुकेऽपि च ।दंशितो वर्मिते दष्टे स्रवन्ती च द्रवन्त्यपि ॥ २८२ ॥
3.13.282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
नद्यामोषधिभेदे च द्विजातिर्ब्राह्मणेऽण्डजे ।दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः ॥ २८३ ॥
3.13.283
अनुष्टुप्
दारिद्र्ये नरके चापि दृष्टान्तः स्यादुदाहृतौ ।शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ॥ २८४ ॥
3.13.284
अनुष्टुप्
निरस्तः प्रेरितशरे सन्त्यक्ते त्वरितोदिते ।निष्ठ्यूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ २८५ ॥
3.13.285
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
निवातो वातरहिते दृढसन्नाह आश्रये ।निर्मुक्तो मुक्तनिर्मोकभुजगे निष्परिग्रहे ॥ २८६ ॥
3.13.286
अनुष्टुप्
निशान्तं सदने शान्ते प्रभातेऽप्यथ निर्वृतिः ।मोक्षे मृत्यौ सुखे सौस्थे निकृतिः शठशाठ्ययोः ॥ २८७ ॥
3.13.287
अनुष्टुप्
भर्त्सनेऽभिभवे क्षेपे निर्ऋतिर्निरुपद्रवे ।अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ २८८ ॥
3.13.288
अनुष्टुप्
प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः ।प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ २८९ ॥
3.13.289
अनुष्टुप्
प्रहतं विस्तृते क्षुण्णे पलितं पङ्कतापयोः ।पक्वकेशे शैलजाते पण्डितः सिह्लधीमतोः ॥ २९० ॥
3.13.290
अनुष्टुप्
प्रणीत उपसम्पन्ने कृते क्षिप्ते प्रवेशिते ।संस्कृताग्नौ च पर्याप्तं शक्ते तृप्तौ निवारणे ॥ २९१ ॥
3.13.291
अनुष्टुप्
यथेष्टे दोषे कृच्छ्रे च पर्याप्तिः परिरक्षणे ।प्राप्ते कामे प्रसृतोऽर्द्धाञ्जलौ वेगिविनीतयोः ॥ २९२ ॥
3.13.292
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 षे (wrong syllable); pāda 3, syllable 6 सृ (wrong syllable)
तते च प्रसृता जङ्घा प्रमीतं प्रोक्षिते मृते ।पर्यस्तं तु हते स्रस्ते प्रपातो निर्झरे भृगौ ॥ २९३ ॥
3.13.293
अनुष्टुप्
प्रसूतिः प्रणवोत्पत्तिपुत्रेषु दुहितर्यपि ।पद्धतिः पथि पङ्क्तौ च प्रकृतिर्योनिशिल्पिनोः ॥ २९५ ॥
3.13.295
अनुष्टुप्
पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः ।प्रत्ययात्पूर्विकायां च प्रततिर्विस्तृतिर्लता ॥ २९६ ॥
3.13.296
अनुष्टुप्
प्रवृत्तिर्वृत्तवृत्ताप्रवाहेषु प्रवर्तने ।प्रचितः शकटोन्मेषे पलानामयुतद्वये ॥ २९७ ॥
3.13.297
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते ।प्रार्थितं शत्रुसंरुद्धे याचिते निहतेष्टयोः ॥ २९८ ॥
3.13.298
अनुष्टुप्
पार्वती शल्लकी गौरी जीवनी द्रुपदात्मजा ।पिण्डितं गुणिते सान्द्रे पिशितं मांसवाचकम् ॥ २९९ ॥
3.13.299
अनुष्टुप्
पिशिता मांसिकायां स्यात् पीडितं करणे स्त्रियाः ।बाधिते यन्त्रसम्मर्दे पुटितः स्यूतपाटिते ॥ ३०० ॥
3.13.300
अनुष्टुप्
हस्तिपुटे पृषतस्तु मृगे बिन्दौ खरोहिते ।श्वेतबिन्दुयुतेऽपि स्यात् प्रोषितं प्रेरिते गते ॥ ३०१ ॥
3.13.301
अनुष्टुप्metre not read in every line
प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे ।क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे ॥ ३०२ ॥
3.13.302
अनुष्टुप्
तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि ।भारती यक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् ॥ ३०३ ॥
3.13.303
अनुष्टुप्
वासिते प्राप्ते भासन्तो भे सूर्ये रम्यभासयोः ।मथितं निर्मलव्याजे व्यालोडितनिघृष्टयोः ॥ ३०४ ॥
3.13.304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्ते (wrong syllable)
महती तु बृहत्यां स्याद्वीणायां नारदस्य च ।मालती युवतौ काकमाच्यां जातीविशल्ययोः ॥ ३०५ ॥
3.13.305
अनुष्टुप्
ज्योत्स्नायां निशि नद्यां च मुण्डितं खण्डिते हृते ।मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽपि च ॥ ३०६ ॥
3.13.306
अनुष्टुप्
मूर्च्छितं सोछ्रये मूढे रजतो दन्तिदन्तयोः ।धवले शोणिते हारे दुर्वर्णे ह्रदशैलयोः ॥ ३०७ ॥
3.13.307
अनुष्टुप्
रसितं स्वर्णादिलिप्ते रुतस्तनितयोरपि ।रमतिर्नायके स्वर्गे रमितं स्तनिते रुते ॥ ३०८ ॥
3.13.308
अनुष्टुप्
रेवती बलभार्यायां नक्षत्रभिदि मातृषु ।रैवतः स्यादुज्जयन्ते सुवर्णालौ हरेऽसुरे ॥ ३०९ ॥
3.13.309
अनुष्टुप्
रोहितो लोहिते मीने मृगे रोहितकद्रुमे ।रोहितं त्वृजुशक्रास्त्रे धीरे ललितमीप्सते ॥ ३१० ॥
3.13.310
अनुष्टुप्
तडिते हारभेदे च लोहितो मङ्गले नदे ।वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने ॥ ३११ ॥
3.13.311
अनुष्टुप्
गोशीर्षे रुधिरे युद्धे वर्धितं छिन्नवर्द्धयोः ।प्रसृते वनिते तु स्यात्प्रर्थिते सेवितेऽपि च ॥ ३१२ ॥
3.13.312
अनुष्टुप्
वनितोत्पादितात्यर्थरागनार्यपि नार्यपि ।वसतिः स्यादवस्थाने निशायां सदनेऽपि च ॥ ३१३ ॥
3.13.313
अनुष्टुप्
व्रततिस्तु प्रतानिन्यां विस्तारे वहतुः पथि ।वृषभे वहतिर्धेन्वां सचिवेऽप्यथ वापितम् ॥ ३१४ ॥
3.13.314
अनुष्टुप्
बीजाकृते मुण्डिते च व्याघातो योगविघ्नयोः ।धातेऽपि व्यायतं दीर्घे व्यावृतेऽतिशये दृढे ॥ ३१५ ॥
3.13.315
अनुष्टुप्
वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे ।वासन्ती माधवीयूथीपाटलास्वथ वासितम् ॥ ३१६ ॥
3.13.316
अनुष्टुप्
वस्त्रच्छन्ने ज्ञातमात्रे भाविते विहगारवे ।वासिता करिणीनार्योर्विहितं तु कृते श्रुते ॥ ३१७ ॥
3.13.317
अनुष्टुप्
विदितं स्वीकृते ज्ञाते विवस्वान् देवसूर्ययोः ।विश्रुतं तु प्रतीते स्याज्जातहर्षितयोरपि ॥ ३१८ ॥
3.13.318
अनुष्टुप्
विगतो निःप्रभे वीते विविक्तो वसुनन्दके ।विविक्तं स्यादसम्पृक्ते रहःपूतविवेकिषु ॥ ३१९ ॥
3.13.319
अनुष्टुप्
विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः ।बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ॥ ३२० ॥
3.13.320
अनुष्टुप्
वाणिज्ये साधुवाह्यश्वे विनयग्राहिते हृते ।विनतः प्रणते भूग्ने विनता पिटिकाभिदि ॥ ३२१ ॥
3.13.321
अनुष्टुप्
सुपर्णायां विहस्तस्तु विकले पण्डकेऽकरे ।विश्वस्तः कृतविश्वासे विश्वस्ता विधवस्त्रियाम् ॥ ३२२ ॥
3.13.322
अनुष्टुप्
विजातो विकृते जाते विजाता तु प्रसूतिका ।विवर्तो नर्त्तने सङ्घेऽपावृत्तौ विकृती रुजि ॥ ३२३ ॥
3.13.323
अनुष्टुप्
डिम्बे विकारे मद्यादौ विपत्तिर्यातनापदोः ।विच्छित्तिः स्यादङ्गरागे हारविच्छेदयोरपि ॥ ३२४ ॥
3.13.324
अनुष्टुप्
विधाता द्रुहिणे कामे विनेतादेशके नृपे ।वृत्तान्तस्तु प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः ॥ ३२५ ॥
3.13.325
अनुष्टुप्
बृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः ।महत्यां वाचि वर्द्धन्यां वेल्लितं कुटिले धुते ॥ ३२६ ॥
3.13.326
अनुष्टुप्
प्लुते वेष्टितं लासके रुद्धे स्त्रीकरणानतरे ।शकुन्तो विहगे भासे श्रीपतिर्विष्णुभूपयोः ॥ ३२७ ॥
3.13.327
अनुष्टुप्metre not read in every line
शुद्धान्तः स्याद्रहःकक्षान्तरे राज्ञोऽवरोधने ।संख्यावान् बुधमितयोः सरस्वानुदधौ नदे ॥ ३२८ ॥
3.13.328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 बु (wrong syllable)
संवर्तः प्रलयेऽक्षद्रौ संहतं मिलिते दृढे ।स्खलितं छलिते भ्रेषे संस्कृतं लक्षणान्विते ॥ ३२९ ॥
3.13.329
अनुष्टुप्
भूषिते कृत्रिमे शस्ते शङ्घातो घातसङ्घयोः ।नरके च समाप्तिः स्यादवसाने समर्थने ॥ ३३० ॥
3.13.330
अनुष्टुप्
संहिता वर्णमसंयोगे शास्त्रवेदैकदेशयोः ।स्थपतिः सौविदेऽधीशे बृहस्पतीष्टियज्वनि ॥ ३३१ ॥
3.13.331
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स्प (wrong syllable)
कारुके च सन्ततिस्तु तनये दुहितर्यपि ।परम्पराभवे पङ्क्तौ गोत्रविस्तारयोरपि ॥ ३३२ ॥
3.13.332
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
सन्नतिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसङ्गयोः ।सम्मतिर्वाञ्छाऽनुमत्योः समितिर्युधि सङ्गमे ॥ ३३३ ॥
3.13.333
अनुष्टुप्
साम्ये सभायां संवित्तिः प्रतिपत्तिविवादयोः ।स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलौ ॥ ३३४ ॥
3.13.334
अनुष्टुप्
सिकताः स्युर्वालुकायां सिकता सैकते रुजि ।सुकृतं तु शुभे पुण्ये सुविधानेऽथ सुव्रता ॥ ३३५ ॥
3.13.335
अनुष्टुप्
सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सद्व्रते ।सुनीतिर्ध्रुवमाता स्यात्सुनया सुरतं पुनः ॥ ३३६ ॥
3.13.336
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह्य (wrong syllable)
मोहने सुरता देवभावे च सुहितः पुनः ।तृप्तावुक्ते सुष्ठुहिते सूनृतं प्रियसत्यवाक् ॥ ३३७ ॥
3.13.337
अनुष्टुप्
मङ्गले च हसन्ती तु मल्लिकाऽङ्गारधानिका ।स्मिताङ्गाशाकिनाभेदे हर्मितं क्षिप्तदग्धयोः ॥ ३३८ ॥
3.13.338
अनुष्टुप्
हारीतो मुनिभेदे स्यात्कैतवे विहगान्तरे ।हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि ॥ ३३९ ॥
3.13.339
अनुष्टुप्