कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरषान्ताः

इति द्विस्वरशान्ताः ।

अक्षो रथस्यावयवे व्यवहारे बिभीतके ।पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥ ५४३ ॥
2.29.543
अनुष्टुप्
अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि ।बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥ ५४४ ॥
2.29.544
अनुष्टुप्
महीधरविशेषे च शोणके क्षतवेधने ।ऋषिर्वेदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥ ५४५ ॥
2.29.545
अनुष्टुप्
कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे ।पापे कक्षा त्विभरज्जौ काञ्च्छां गेहप्रकोष्ठके ॥ ५४६ ॥
2.29.546
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
भित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।उद्ग्राहण्यां च कर्षूस्तु तुषाग्नौ कृषिकुल्ययोः ॥ ५४७ ॥
2.29.547
अनुष्टुप्metre not read in every line
घोषः कांस्ये स्वने गोपघोषकाभीरपल्लिषु ।घोषा तु शतपुष्पायां चोक्षः सुन्दरगोतयोः ॥ ५४८ ॥
2.29.548
अनुष्टुप्
शुचौ झषस्तु मकरे वने मीने झषा पुनः ।नागबलायां तुषस्तु धान्यत्वचि बिभीतके ॥ ५४९ ॥
2.29.549
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ब (wrong syllable)
दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ ।द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेऽर्थिनि ॥ ५५० ॥
2.29.550
अनुष्टुप्
गृहे ध्वाङ्क्षी तु कक्कोल्यां न्यक्षः कार्त्स्न्यनिकृष्टयोः ।जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥ ५५१ ॥
2.29.551
अनुष्टुप्
चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये ।पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥ ५५२ ॥
2.29.552
अनुष्टुप्
प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके ।प्रेक्षा धीरीक्षणं नृतं प्रैषौ प्रेषणपीडने ॥ ५५३ ॥
2.29.553
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 नृ (wrong syllable)
पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः ।भिक्षा सेवाप्रार्थनयोर्भृतौ भिक्षितवस्तुनि ॥ ५५४ ॥
2.29.554
अनुष्टुप्
माषो माने धान्यभेदे मूर्खे त्वग्दोषभिद्यपि ।मिषं व्याजे स्पर्द्धने च मेषो राश्यन्तरे हुडौ ॥ ५५५ ॥
2.29.555
अनुष्टुप्
मोक्षो निःश्रियसे वृक्षविशेषे मोचने मृतौ ।यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥ ५५६ ॥
2.29.556
अनुष्टुप्
रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशरव्ययोः ।संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥ ५५७ ॥
2.29.557
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्ध (wrong syllable)
वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले ।क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥ ५५८ ॥
2.29.558
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च ।श्रेष्ठे स्यादुत्तरस्थश्च वृषी तु व्रतिविष्टरे ॥ ५५९ ॥
2.29.559
अनुष्टुप्
वृषा पुनः कपिकच्छ्वां शुषिः शुषिरशोषयोः ।शोषोऽनन्ते वधे सीरिण्युपयुक्तेतरेऽपि च ॥ ५६० ॥
2.29.560
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
शोषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः ।
2.29.19