कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

पञ्चस्वरकाण्डः · पञ्चस्वरनान्ताः

इति पञ्चस्वरधान्ताः ।

अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ २६ ॥
5.11.26
अभिनिष्ठानस्तु वर्णे विसर्गेऽथोऽनुवासनम् ।स्नेहने धूपने चाऽन्तावसायी श्वपचे मुनौ ॥ २७ ॥
5.11.27
अनुष्टुप्
अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् ।विश्राणने च हिंसायामादेशे सेवकस्य च ॥ २८ ॥
5.11.28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ज (wrong syllable)
स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि ।उपसंपन्नं पर्य्याप्ते संस्कृतप्राप्तयोर्मृते ॥ २९ ॥
5.11.29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नं (wrong syllable)
कलानुनादी चटके चञ्चरीके कपिञ्जले ।गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके ॥ ३० ॥
5.11.30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable)
गन्धमादनी सुरायामथ जायानुजीविनः ।नटाश्विनबकदुःस्थाः स्याद्धूमकेतनोऽनले ॥ ३१ ॥
5.11.31
metre not recognised
ग्रहभेदे च प्रतिपादने बोधनदानयोः ।पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः ॥ ३२ ॥
5.11.32
metre not recognised
पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि ।पीतचन्दनं स्याद्धरिद्रायां काश्मीरजन्मनि ॥ ३३ ॥
5.11.33
metre not recognised
महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः ।भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे ॥ ३४ ॥
5.11.34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
द्रोणकाकेऽप्पथ वरचन्दनं देवदारुणि ।कालेये वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ ३५ ॥
5.11.35
अनुष्टुप्
रोचनायां हरिद्रायामथ स्याच्छकुलादनी ।कट्वां मांसीपिचुलिकाजलपिप्पलिकासु च ॥ ३६ ॥
5.11.36
अनुष्टुप्
शलङ्कायनशब्दः स्यादृषिभेदेऽपि नन्दिनि ।शिवकीर्तिनशब्दस्तु भृङ्गिरीटेऽसुरद्विषि ॥ ३७ ॥
5.11.37
अनुष्टुप्
श्वेतवाहन इत्याख्या शशाङ्गे च धनञ्जये ।स्यात्षष्टिहायनो धान्यविशेषे च मतङ्गजे ॥ ३८ ॥
5.11.38
अनुष्टुप्
सहस्रवेधी चुक्रे स्यात् सहस्रवेधि रामठे ।हरिचन्दनमाख्यातं गोशीर्षे देवपादपे ॥ ३९ ॥
5.11.39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
हरिवाहन इत्युक्तो भास्करामरनाथयोः ।
5.11.15