All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरछान्ताः
इति द्विस्वरचान्ताः ।
अच्छो भल्लूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् ॥ ६० ॥
2.6.60
कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च ।कच्छास्तु देशे कच्छा स्यात् परिधानापराञ्चले ॥ ६१ ॥
2.6.61
अनुष्टुप्
चीर्यां वाराह्यां च गुच्छो गुच्छे हारकलापयोः ।पिच्छः पुच्छे पिच्छं वाजे पिच्छा शाल्मलिवेष्टके ॥ ६२ ॥
2.6.62
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पि (wrong syllable)
पङ्क्तिः पूगच्छटाकोशमण्डेष्वश्वपदामये ।मोचायां पिच्छिले म्लेच्छो जातिभेदेऽपभाषणे ॥ ६३ ॥
2.6.63
अनुष्टुप्