कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरयान्ताः

इति त्रिस्वरमान्ताः ।

अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ ५०६ ॥
3.22.506
अनुष्टुप्
अभयमुशीराभीत्योरभाया तु हरीतकी ।अनयोऽशुभदैवे स्याद्विपव्द्यसनयोरपि ॥ ५०७ ॥
3.22.507
अनुष्टुप्metre not read in every line
अश्वीयमश्वसङ्घेऽश्वहितेऽधृष्यः प्रगल्भके ।अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति ॥ ५०८ ॥
3.22.508
अनुष्टुप्
सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयोः ।अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये ॥ ५०९ ॥
3.22.509
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः ।आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि ॥ ५१० ॥
3.22.510
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
आतिथ्योऽतिथौ तद्योगेऽप्याम्नायः कुल आगमे ।उपदेशे चेन्द्रियं तु चक्षुरादिषु रेतसि ॥ ५११ ॥
3.22.511
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 थौ (wrong syllable)
उदयः पर्वतोन्नत्योरूर्णायुरविकम्बले ।ऊर्णानाभे च मेषे चैणेयमेणीत्वगादिके ॥ ५१२ ॥
3.22.512
अनुष्टुप्
रतबन्धादिषु स्त्रीणां कषायः सुरभौ रसे ।रागवस्तुनि निर्यासे क्रोधादिषु विलेपने ॥ ५१३ ॥
3.22.513
अनुष्टुप्
वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् ।कुकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ५१४ ॥
3.22.514
अनुष्टुप्
कुलायः पक्षिणां स्थानगेहयोः क्षेत्रियास्त्रयः ।अन्यदेहचिकित्सार्हाऽसाध्यरुक्पारदारिकाः ॥ ५१५ ॥
3.22.515
अनुष्टुप्
क्षेत्रियं क्षेत्रजतृणे गाङ्गेयं स्वर्णमुस्तयोः ।कशेरुण्यथ गाङ्गेयो गाङ्गवत्स्कन्दभीष्मयोः ॥ ५१६ ॥
3.22.516
अनुष्टुप्
चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने ।केतकेऽक्षिहिते चापि चक्षुष्या तु कुलत्थिका ॥ ५१७ ॥
3.22.517
अनुष्टुप्
चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे ।जघन्यं शिश्ने गर्ह्येऽन्त्ये जटायुर्गुग्गुलौ खगे ॥ ५१८ ॥
3.22.518
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्ने (wrong syllable)
तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ ।द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः ॥ ५१९ ॥
3.22.519
अनुष्टुप्
नादेयी भूमिजम्ब्वां स्यान्नारङ्गे जलवेतसे ।काङ्गुष्ठे च जपायां च निकायः सद्मसङ्घयोः ॥ ५२० ॥
3.22.520
अनुष्टुप्
परमात्मनि लक्ष्ये च निलयोऽस्तमये गृहे ।गोपनस्य प्रदेशेऽपि नेपथ्यं तु प्रसाधने ॥ ५२१ ॥
3.22.521
अनुष्टुप्
रङ्गभूमौ वेषभेदे प्रणयः प्रेमयाच्ञयोः ।विस्रम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः ॥ ५२२ ॥
3.22.522
अनुष्टुप्
विश्वासे शपथे हेतावाचारप्रथितत्वयोः ।अधीने निश्चये स्यादौ प्रणाय्यः कामवर्जिते ॥ ५२३ ॥
3.22.523
अनुष्टुप्
असम्मते प्रसव्यस्तु प्रतिकूलानुकूलयोः ।प्रतीक्ष्यः प्रतिपाल्यै स्यात्पूज्ये च प्रलयो मृतौ ॥ ५२४ ॥
3.22.524
अनुष्टुप्
संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे ।निर्माणे द्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे ॥ ५२५ ॥
3.22.525
अनुष्टुप्
वासवे मेघशब्दे च पयस्यं तु पयोभवे ।पयोहिते पयस्या तु काकोली दुग्धिकाऽपि च ॥ ५२६ ॥
3.22.526
अनुष्टुप्
प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः ।पानीयं पेयजलयोः पारुष्यस्तु बृहस्पतौ ॥ ५२७ ॥
3.22.527
अनुष्टुप्
पारुष्यं परुषभावे सङ्क्रन्दनवनेऽपि च ।पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ ॥ ५२८ ॥
3.22.528
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
भुजिष्यः स्यादनधीने किङ्करे हस्तसूत्रके ।भुजिष्या गणिकादास्योर्भुवन्युर्वह्निसूर्ययोः ॥ ५२९ ॥
3.22.529
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
मलयो देश आरामे शैलांशे पर्वतान्तरे ।मलया त्रिवृत् मङ्गल्यस्त्रायमाणे मसूरके ॥ ५३० ॥
3.22.530
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृत् (wrong syllable)
बिल्वे मङ्गल्यं तु दध्नि मङ्गल्या रोचना शमी ।शतपुष्पा शुक्लवचा प्रियङ्गुः शङ्खपुष्प्यपि ॥ ५३१ ॥
3.22.531
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 शु (wrong syllable)
अधःपुष्पी मृगयुस्तु फेरौ ब्रह्मणि लुब्धके ।रहस्यं गोपनीये च रहस्या सरिदन्तरे ॥ ५३२ ॥
3.22.532
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
लौहित्योऽब्धौ नदे व्रीहौ ब्रह्मण्यो ब्रह्मणो हिते ।शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः ॥ ५३३ ॥
3.22.533
अनुष्टुप्
वदान्यः प्रियवाग्दानशीलयोरुभयोरपि ।वक्तव्यो वाच्यवद्गर्ह्ये वचोर्हहीनयोरपि ॥ ५३४ ॥
3.22.534
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ह (wrong syllable)
वलयः कङ्कणं कण्ठरुग्वालेयस्तु गर्दभे ।वल्यर्थे कोमलेऽङ्गारवल्लर्यां विजयो जये ॥ ५३५ ॥
3.22.535
अनुष्टुप्
पार्थे विमाने विजयोमातत्सख्योस्तिथावपि ।विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः ॥ ५३६ ॥
3.22.536
अनुष्टुप्
शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः ।विनयः शिक्षाप्रणत्योर्विनया तु बलौषधौ ॥ ५३७ ॥
3.22.537
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च ।शल्येन रहितायां च प्रियायां लक्ष्मणस्य च ॥ ५३८ ॥
3.22.538
अनुष्टुप्
श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे ।बिल्वे मुनौ च शालेयं शतपुष्पाह्वयौषधे ॥ ५३९ ॥
3.22.539
अनुष्टुप्
क्षेत्रे च शालिधान्यस्य शीर्षण्यं शीर्षरक्षणे ।शीर्षण्यो विशदकचे शैलेयं शैलसम्भवे ॥ ५४० ॥
3.22.540
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
सिन्धूत्थे तालपर्ण्यां च शैलेयस्तु मधुव्रते ।समयः शपथे भाषासम्पदोः कालसंविदोः ॥ ५४१ ॥
3.22.541
अनुष्टुप्
सिद्धान्ताचारसङ्केतनियमावसरेषु च ।क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे ॥ ५४२ ॥
3.22.542
अनुष्टुप्
सन्निवेशे सन्नयस्तु समवायानुसैन्ययोः ।सामर्थ्यं योग्यताशक्त्योः सौकर्यं तु विना श्रमे ॥ ५४३ ॥
3.22.543
अनुष्टुप्
सूकरस्य क्रियायां च सौरभ्यं गुणगौरवे ।सौगन्ध्ये चारुतायां च हिरण्यं पुनरक्षये ॥ ५४४ ॥
3.22.544
अनुष्टुप्
प्रधानधातौ कनके मानभेदे कपर्दके ।द्रविणाकुप्ययोश्चापि हृच्छयो मन्मथात्मनोः ॥ ५४५ ॥
3.22.545
अनुष्टुप्
हृदयं वक्षसि स्वान्ते बुक्कायाम्-
3.22.41