All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरनान्ताः
इति त्रिस्वरधान्ताः ।
अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ ।अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ३८१ ॥
3.17.381
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्जु (wrong syllable)
नेत्ररोगेऽर्जुनः पार्थे हैहये ककुभद्रुमे ।मातुरेकसुते चाऽर्जुन्यषा गौः कुट्टिनी सरित् ॥ ३८२ ॥
3.17.382
अनुष्टुप्
अङ्गनं प्राङ्कणे यानेऽप्यङ्गना तु नितम्बिनी ।स्यादपानं गुदेऽपानस्तद्वायावञ्जनं मसौ ॥ ३८३ ॥
3.17.383
अनुष्टुप्
रसाञ्जनेऽक्तौ सौवीरेऽथाञ्जनो दिङ्मतङ्गजे ।अञ्जना हनुमन्मातर्यञ्जनी लेप्ययोषिति ॥ ३८४ ॥
3.17.384
अनुष्टुप्
अवनं रक्षणप्रीत्योरर्यमा पितृदैवते ।तरणौ सूर्य्यभक्तायामशनिर्वज्रविद्युतोः ॥ ३८५ ॥
3.17.385
अनुष्टुप्
अरत्निः कूर्परे पाणौ सप्रकोष्ठतताङ्गुलौ ।आसनं विष्टरे हस्तिस्कन्धे यात्रानिवर्तने ॥ ३८६ ॥
3.17.386
अनुष्टुप्
ग्रहणेऽथोत्थानं सैन्ये पौरुषे युधि पुस्तके ।उद्यमोद्गमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ३८८ ॥
3.17.388
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्था (wrong syllable)
मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखगभीरयोः ।उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ३८९ ॥
3.17.389
अनुष्टुप्
कामिकामाभिरूपेषु कठिनं निष्ठुरोषयोः ।कठिनी तु खटिका स्यात्कठिना गुडशर्करा ॥ ३९१ ॥
3.17.391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टि (wrong syllable)
कर्तनं योषितां तूलसेवने छेदनेऽपि च ।क्रन्दनं रोदने ह्वाने कल्पनं क्लृप्तिकर्तने ॥ ३९२ ॥
3.17.392
अनुष्टुप्
कल्पनेभसर्ज्जनायां कलापी प्लक्षकेकिनोः ।कञ्चुकी जोङ्गकतरौ महल्ले पन्नगे विटे ॥ ३९३ ॥
3.17.393
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ (wrong syllable)
काञ्चनं हेम्नि किञ्जल्के काञ्चनो नागकेसरे ।उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ॥ ३९४ ॥
3.17.394
अनुष्टुप्
काञ्चनी तु हरिद्रायां कानीनः कन्यकासुते ।कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥ ३९५ ॥
3.17.395
अनुष्टुप्
कुहनो मूषिके सेर्ष्ये कुहना दम्भकर्मणि ।कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते ॥ ३९६ ॥
3.17.396
अनुष्टुप्
केतनं सदने चिह्ने कृत्ये चोपनिमन्त्रणे ।केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ३९७ ॥
3.17.397
अनुष्टुप्
कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे ।कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ ३९८ ॥
3.17.398
अनुष्टुप्
कायगुह्ये कौलीन्ये च गहनं वनगुह्ययोः ।गह्वरे कलिले चापि गन्धनं तु प्रकाशने ॥ ३९९ ॥
3.17.399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कौ (wrong syllable)
सूचनोत्साहहिसासु गर्जनं स्तनिते क्रुधि ।गृञ्जनं विषदग्धस्य पशोर्मांसे सरोनके ॥ ४०० ॥
3.17.400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हि (wrong syllable)
गोस्तनो हारभेदे स्याद्गोस्तनी हारहूरिका ।घटना चलनावृत्योश्चलनः पादकम्प्रयोः ॥ ४०१ ॥
3.17.401
अनुष्टुप्
चलनं कम्पे चलनी वारीभिद्वस्त्रघर्घरी ।चन्द्नो वानरभिदि श्रीखण्डे चन्दिनी नदी ॥ ४०२ ॥
3.17.402
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 म्पे (wrong syllable); pāda 3, syllable 1 च (syllables merged)
चेतनः स्यात्सहृदयः प्राणिनोश्चेतना तु धीः ।चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः ॥ ४०३ ॥
3.17.403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि ।छदनं पत्रगरुतोश्छेदनं कर्तने भिदि ॥ ४०४ ॥
3.17.404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जयनं विजये श्वादिसन्नाहे जघनं कटौ ।स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ ४०५ ॥
3.17.405
अनुष्टुप्
वेग्यश्वे नीवृति जवन्यपट्यामोषधीभिदि ।जीवनस्तु पुत्रजीवे जीवनं वृत्तिवारिणोः ॥ ४०६ ॥
3.17.406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा ।तलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥ ४०७ ॥
3.17.407
अनुष्टुप्
भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते ।तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशम्भुषु ॥ ४०८ ॥
3.17.408
अनुष्टुप्
तपस्वी तापसे दीने तरस्वी वेगिशूरयोः ।तेमनं व्यज्जने क्लेदे तेमनी चुल्लिभिद्यपि ॥ ४०९ ॥
3.17.409
अनुष्टुप्
तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते ।भल्लाते चित्रकेऽग्नौ च दमनो द्वीपपुष्पयोः ॥ ४१० ॥
3.17.410
अनुष्टुप्
दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः ।स्वप्नलोचनयोश्चापि दंशनं वर्म्मदंशयोः ॥ ४१० ॥
3.17.410
अनुष्टुप्
द्विजन्मा वौ रदे विप्रे दुर्नाम पुनरर्शसि ।दुर्नामा दीर्घकोश्यां स्पाद्देवनोऽक्षेऽथ देवनम् ॥ ४११ ॥
3.17.411
अनुष्टुप्
व्यवहारे जिगीषायां क्रीडायां धमनोऽनले ।क्रूरे भस्त्राध्मायके च धमनी कन्धरा शिरा ॥ ४१२ ॥
3.17.412
अनुष्टुप्
हरिद्रा च धावनं तु गतौ शौचेऽथ नन्दनम् ।इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ ४१३ ॥
3.17.413
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
नलिनं नीलिकातोयाम्बुजेषु नलिनी पुनः ।पद्माकरे गङ्गाब्जिन्योर्निधनं कुलनाशयोः ॥ ४१४ ॥
3.17.414
अनुष्टुप्
प्रधानं प्रकृतौ वृद्धावुत्ताने परमात्मनि ।महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः ॥ ४१६ ॥
3.17.416
अनुष्टुप्
प्रज्ञानं बुद्धौ चिह्ने च स्यात् प्रसन्नं प्रसादवत् ।प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥ ४१७ ॥
3.17.417
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्धौ (wrong syllable); pāda 3, syllable 6 दि (wrong syllable)
पवनं पुनरापाके पद्मिनी योषिदन्तरे ।अब्जेऽब्जिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ४१८ ॥
3.17.418
अनुष्टुप्
पावनः पावके सिह्लेऽध्यासे पावयितर्यपि ।पावनी तु हरीतक्यां पाठीनो गुग्गुलुद्रुमे ॥ ४१९ ॥
3.17.419
अनुष्टुप्
कप्यास्ये पिशुना स्पृक्का स्यात् पिशुनं तु कुङ्कुमम् ।पीतनं तु हरिताले पीतदारुणि कुङ्कुमे ॥ ४२१ ॥
3.17.421
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable); pāda 3, syllable 6 रि (wrong syllable)
सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः ।नदीजेऽर्जुने वृक्षे च फाल्गुनी पूर्णिमाभिदि ॥ ४२३ ॥
3.17.423
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
भवनं सदने भावे भण्डनं कवचे युधि ।खलीकारे भट्टिनी तु ब्राह्मण्यां नृपयोषिति ॥ ४२४ ॥
3.17.424
अनुष्टुप्
भावना वासना ध्यानं भुवनं लोकखाम्बुषु ।भूतात्मा द्रुहिणे देहे मदनः सिक्थके स्मरे ॥ ४२५ ॥
3.17.425
अनुष्टुप्
राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः ।मलिनी रजस्वलायां मण्डनं तु प्रसाधने ॥ ४२६ ॥
3.17.426
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
मण्डनोऽलङ्करिष्णौ स्यान्मार्जनो लोध्रशाखिनि ।मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ ॥ ४२७ ॥
3.17.427
अनुष्टुप्
मालिन्युमायां गङ्गायां चम्पावृत्तप्रभेदयोः ।मालिक्यां मिथुनो राशौ मिथुनं पुंस्त्रियोर्युगे ॥ ४२८ ॥
3.17.428
अनुष्टुप्
मुण्डनं रक्षणे क्षौरे मेहनं मूत्रशिश्नयोः ।मैथुनं रतसङ्गत्योर्यमनं दमबन्धयोः ॥ ४२९ ॥
3.17.429
अनुष्टुप्
यावनं कालविक्षेपे निराशे वर्तनेऽपि च ।योजनं तु चतुःक्रोश्यां स्याद्योगपरमात्मनोः ॥ ४३० ॥
3.17.430
अनुष्टुप्
मञ्जिष्ठारोचनानीलीगुण्डासु रजनी निशि ।लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः ॥ ४३२ ॥
3.17.432
अनुष्टुप्
साधने रेचनी गुन्द्रा दन्ती रोचनिका त्रिवृत् ।रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ ॥ ४३३ ॥
3.17.433
अनुष्टुप्
ललामवल्ललामाऽश्वे श्रृङ्गे चिह्नपताकयोः ।रम्ये प्रधाने भूषायां पुण्ड्रे पुच्छप्रभावयोः ॥ ४३५ ॥
3.17.435
अनुष्टुप्
ललना स्त्री नाडिजिह्वा लाञ्छनं लक्ष्मसंज्ञयोः ।लाङ्गली स्याद्बलभद्रे नालिकेरेऽथ लेखनम् ॥ ४३६ ॥
3.17.436
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे ।दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु ॥ ४३७ ॥
3.17.437
अनुष्टुप्
पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः ।तेमनेऽवयवे कादौ वमनं छर्दनेऽर्दने ॥ ४३८ ॥
3.17.438
अनुष्टुप्
वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ।वर्द्धनं छेदने वृद्धौ वर्द्धनी तु गलन्तिका ॥ ४३९ ॥
3.17.439
अनुष्टुप्
वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि ।वर्तने तर्कुपिण्डे वा वनश्वा विप्रतारके ॥ ४४० ॥
3.17.440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
शार्दूले गन्धमार्जारे वमनो दिग्गजेऽच्युते ।खर्वेऽङ्कोठे वाहिनी तु सेनातद्भेदसिन्धुषु ॥ ४४१ ॥
3.17.441
अनुष्टुप्
स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि ।वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि ॥ ४४२ ॥
3.17.442
अनुष्टुप्
तुच्छे मन्दे वृत्तशून्ये शून्यावसथयोरपि ।विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः ॥ ४४३ ॥
3.17.443
अनुष्टुप्
विक्लिन्नो जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ ।विषघ्नः शिरीषतरौ विषघ्ना त्रिवृता मृता ॥ ४४४ ॥
3.17.444
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 शि (wrong syllable)
विच्छिन्नं तु कुटिले स्यात् समालब्धविभक्तयोः ।विमानं देवतायाने सप्तभूमिगृहेऽपि च ॥ ४४५ ॥
3.17.445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टि (wrong syllable)
विपन्नो भूजगे नष्टे विश्वप्सा वह्निचन्द्रयोः ।समीरणे कृतान्ते च विलासी भोगिसर्पयोः ॥ ४४७ ॥
3.17.447
अनुष्टुप्
विषयी विषयासक्ते वैषयिकजने नृपे ।कामे विषयि हृषीके व्युत्थानं प्रतिरोधने ॥ ४४८ ॥
3.17.448
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ष (wrong syllable); pāda 3, syllable 6 हृ (wrong syllable)
विरोधाचरणे स्वैरवृत्तौ समाधिपारणे ।वृजिनः केशे वृजिनं भुग्नेऽघे रक्तचर्मणि ॥ ४४९ ॥
3.17.449
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable); pāda 3, syllable 5 शे (wrong syllable)
वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ ।वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः ॥ ४५० ॥
3.17.450
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
रते शमनस्तु यमे शमनं शान्तिहिंसयोः ।श्वसनं श्वासे श्वसनः पवने मदनद्रुमे ॥ ४५१ ॥
3.17.451
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable); pāda 3, syllable 5 से (wrong syllable)
शकुनं स्याद्दैवशंसिनिमित्ते शकुनः खगे ।शकुनिः खगे करणभेदे कौरवमातुले ॥ ४५२ ॥
3.17.452
metre not recognisednearly अनुष्टुप्
शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः ।शासनं नृपदत्तोर्व्यां शास्त्राज्ञालेखशास्तिषु ॥ ४५३ ॥
3.17.453
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
शिखरी कोठकोयष्ट्योर्द्रुमेऽपामार्गशैलयोः ।शिखण्डी कुक्कुटे चित्रमेखले बर्हिबर्हयोः ॥ ४५४ ॥
3.17.454
अनुष्टुप्
भीष्मारौ बाणे श्रृङ्गारी सुवेषे क्रमुके द्विपे ।श्लेष्मघ्नी स्यान्मल्लिकायां कम्पिल्लकफणिज्जयोः ॥ ४५५ ॥
3.17.455
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 णे (wrong syllable)
स्तननं क्रन्दने मेघगर्जितध्वनिमात्रयोः ।स्पर्शनं हृषीके दाने स्पर्शे च स्पर्शनोऽनिले ॥ ४५७ ॥
3.17.457
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षी (wrong syllable)
स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे ।संव्यानं छादने वस्त्रे समानो देहमारुते ॥ ४५८ ॥
3.17.458
अनुष्टुप्
वर्णभित्सत्समैकेषु सन्तानोऽपत्यगोत्रयोः ।सन्ततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ ॥ ४५९ ॥
3.17.459
अनुष्टुप्
चतुष्पथे सन्निवेशे सज्जनं घट्टगुल्मके ।सज्जनस्तु कुलीने स्यात्सज्जनाऽपि च कल्पना ॥ ४६० ॥
3.17.460
अनुष्टुप्
सन्धानं तु सङ्घटनेऽभिषवे सन्धिनी तु गौः ।वृषाक्रान्ता कालदुग्धा स्थापनं तु निवेशने ॥ ४६१ ॥
3.17.461
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
पुंसवने समाधौ च साधनं सिद्धिसैन्ययोः ।उपायेऽपगमे मेढ्रे निवृत्तौ कारके वधे ॥ ४६२ ॥
3.17.462
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
दीपने मृतसंस्कारे प्रमाणे गमने धने ।सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि ॥ ४६३ ॥
3.17.463
अनुष्टुप्
सुदामा पर्वते मेधे सुधन्वा त्वष्ट्रधन्विनोः ।सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः ॥ ४६४ ॥
3.17.464
अनुष्टुप्
सूचना स्यादभिनये गन्धने व्यधने दृशि ।सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे ॥ ४६५ ॥
3.17.465
अनुष्टुप्
हसन्यङ्गारधान्यां स्याद्धसनं हसिते मतम् ।हस्तिनी नायिकाभेदे मातङ्गस्य स्त्रियामपि ॥ ४६६ ॥
3.17.466
अनुष्टुप्
हायनोऽर्चिर्व्रीहिर्वर्षं ह्रादिनी वज्रविद्युतोः ।हिण्डनं क्रीडारतयोर्याने -
3.17.88
metre not recognised