कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरगान्ताः

इति त्रिस्वरखान्ताः ।

अयोगः कठिनोद्यमे ।विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्रयोः ॥ ११४ ॥
3.3.114
अनुष्टुप्metre not read in every line
अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे ।आभोगः परिपूर्मत्वे वरुणच्छत्रयत्नयोः ॥ ११५ ॥
3.3.115
अनुष्टुप्
आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः ।आशुगोऽर्के शरे वायावुत्सर्गस्त्यागदानयोः ॥ ११६ ॥
3.3.116
अनुष्टुप्
वर्जने सामान्यविधावुद्वेगं पूगिकाफले ।उद्वेगस्तूद्विजने स्यात्स्तिमिते शीघ्रगामिनि ॥ ११७ ॥
3.3.117
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable); pāda 3, syllable 6 ज (wrong syllable)
उद्वाहे च भयेऽपि स्यात् कलिङ्गो नीवृदन्तरे ।पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी ॥ ११८ ॥
3.3.118
अनुष्टुप्
कलिङ्गं कौटजफले कालिङ्गस्तु भुजङ्गमे ।द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी ॥ ११९ ॥
3.3.119
अनुष्टुप्
चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ।जिह्मगो मन्दगे सर्पे तुरगो वाजिचित्तयोः ॥ १२० ॥
3.3.120
अनुष्टुप्
तुरगी त्वश्वगन्धायां धाराङ्गः खड्गतीर्थयोः ।नरङ्गः शेफे वरण्डे नारङ्गं विटजन्मिनोः ॥ १२१ ॥
3.3.121
अनुष्टुप्
कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयोः ।निसर्गः सृष्टौ स्वभावे नीलङ्गुः कृमिजातिके ॥ १२२ ॥
3.3.122
अनुष्टुप्
भम्भराल्यां प्रसूने च प्लवगः कपिभेकयोः ।अर्कसूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे ॥ १२३ ॥
3.3.123
अनुष्टुप्
परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः ।स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः ॥ १२४ ॥
3.3.124
अनुष्टुप्
पारदे शलभे शालौ पत्राङ्गं रक्तचन्दने ।भूर्जपद्मकयोश्चापि प्रयागो वाजिशक्रयोः ॥ १२५ ॥
3.3.125
अनुष्टुप्
यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने ।कार्मणे च प्रयुक्तौ च प्रियङ्गू राजसर्षपे ॥ १२६ ॥
3.3.126
अनुष्टुप्
पिपल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे ।जातीफले नरश्रेष्ठे भुजङ्गः सर्पषिड्गयोः ॥ १२७ ॥
3.3.127
अनुष्टुप्
मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः ।रक्ताङ्गो भौमे रक्ताङ्गं कम्पिल्ये विद्रुमेऽपि च ॥ १२८ ॥
3.3.128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मे (wrong syllable)
रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि ।रथाङ्गं चक्रे वराङ्गं योनौ शीर्षे गुडत्वचि ॥ १२९ ॥
3.3.129
अनुष्टुप्
कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः ।विसर्गो विसर्जनीये वर्चिसि त्यागदानयोः ॥ १३० ॥
3.3.130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
सम्भोगो भोगरतयोः शुण्डायां सर्वगं जले ।सर्वगस्तु विभौ रुद्रे सारङ्गो विहगान्तरे ॥ १३१ ॥
3.3.131
अनुष्टुप्
चातके चञ्जरीके च द्विपैणशबलेषु च ।
3.3.19