All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
पञ्चस्वरकाण्डः · पञ्चस्वरणान्ताः
इति पञ्चस्वरटान्ताः ।
अवग्रहणं रीढायां रोधनेऽथाऽवतारणम् ।वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् ॥ १५ ॥
5.7.15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
दारणे युधि च परिभाषणं तु प्रजल्पने ।नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १६ ॥
5.7.16
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 यु (wrong syllable); pāda 3, syllable 5 न्दो (wrong syllable)
प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये ।मण्डूकपर्णो रलुकशोणकयोः कपीतने ॥ १७ ॥
5.7.17
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
मण्डूकपर्णी मञ्जिष्ठाव्रीह्योर्गोजिह्विकौषधौ ।स्याद्रोमहर्षणाख्या तु रोमोद्गमे बिभीतके ॥ १८ ॥
5.7.18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्ग (wrong syllable)
समुद्धरणं वान्तान्ने जलस्योद्धरणे प्रहे ।
5.7.6