All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
हेमचन्द्राचार्य · अनेकार्थसङ्ग्रहो नाम कोशः आचार्यश्रीहेमचन्द्रेण विरचितः । · जयकृष्णदास-हरिदासगुप्तः - चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी । · 1985 V.S. · श्रीपण्डितघनानन्दपाण्डेयेन पल्लवग्रामवासिना तथा श्रीपण्डितजनार्दनज्योतिर्विदा तारादत्तिना चीनाखनीवासिना च कूर्माचलपर्वतीयाभ्याम् उद्धृत्य संशोध्याऽकारादिसूच्या संवेष्ट्य मुद्रणायाऽर्पितः । श्रीमता पण्डितजगन्नाथशास्त्रिहोशिङ्गमहोदयेन साहित्योपाध्यायेन सम्पादितः
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरघान्ताः
इति द्विस्वरगान्ताः ।
अर्घः पूजाविधौ मूल्येऽर्घं दुःखे व्यसनैनसोः ।उद्घो हस्तपुटे वह्नौ श्लाघायां देहजानिले ॥ ५१ ॥
2.4.51
अनुष्टुप्
ओघः प्रवाहः संघातो द्रुतनृत्तं परंपरा ।उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च ॥ ५२ ॥
2.4.52
अनुष्टुप्
मोघो दीने निष्फले च मोघा स्यात् पाटलातरौ ।लघुः सृक्का लघ्वसारं ह्रस्वं चार्वगुरु द्रतम् ॥ ५३ ॥
2.4.53
अनुष्टुप्
श्लाघोपात्तीच्छयोः स्तोत्रे--
2.4.4