कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरजान्ताः

इति चतुःस्वरचान्ताः ।

काश्मीरजं कुष्टे कुङ्कुमे पुष्करेऽपि च ।काश्मीरजाऽतिविषायां क्षीराब्धिजं तु मौक्तिके ॥ ५४ ॥
4.5.54
metre not recognised
वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् ।ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि ॥ ५५ ॥
4.5.55
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 न्य (wrong syllable)
शूद्रे च द्विजराजस्तु शेषे तार्क्ष्ये निशाकरे ।धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे ॥ ५६ ॥
4.5.56
अनुष्टुप्
भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च ।भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे ॥ ५७ ॥
4.5.57
अनुष्टुप्
भृङ्गराजो मधुकरे मार्कवे विहगान्तरे ।राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः ॥ ५८ ॥
4.5.58
अनुष्टुप्
द्विके सिंहे-
4.5.6