कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरयान्ताः

इति द्विस्वरमान्ताः ।

अर्थ्यं शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः ।अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभेवेऽधमे ॥ ३३६ ॥
2.24.336
अनुष्टुप्metre not read in every line
अर्घ्यमर्घार्थमर्घार्हमास्यं मुखभवे मुखे ।मुखान्तरास्या तु स्थित्यामार्यौ सज्जनसंविदौ ॥ ३३७ ॥
2.24.337
अनुष्टुप्
आर्योमाच्छन्दसोरिज्या दाने सङ्गेऽध्वरेऽर्चने ।इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ ॥ ३३८ ॥
2.24.338
अनुष्टुप्
कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये ।कल्या कल्याणवाची स्यात्कश्यं कशार्हमद्ययोः ॥ ३३९ ॥
2.24.339
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
अश्वमध्ये क्षयो गेहे कल्पान्तेऽपचये रुजि ।कन्या नार्य्यां कुमार्य्यां च राश्योषधिविशेषयोः ॥ ३४० ॥
2.24.340
अनुष्टुप्
कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु ।बृहतिकेभनाडयोश्च कार्यं हेतौ प्रयोजने ॥ ३४१ ॥
2.24.341
अनुष्टुप्metre not read in every line
कायः कदैवते मूर्तौ सङ्घे लक्ष्यस्वभावयोः ।कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः ॥ ३४२ ॥
2.24.342
अनुष्टुप्
काव्यं ग्रन्थे काव्यः शुक्रे कांस्यं तैजसवाद्ययोः ।पानपात्रे मानभेदे क्रिया करणचेष्टयोः ॥ ३४३ ॥
2.24.343
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
कर्मोपायचिकित्सासु निष्कृतौ सम्प्रधारणे ।अर्चाप्रारम्भशिक्षासु कुल्यं तु कुलजेऽस्थनि ॥ ३४४ ॥
2.24.344
अनुष्टुप्
सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ ।कृत्यो विद्विषि कार्ये च कृत्या स्याद्देवता क्रिया ॥ ३४५ ॥
2.24.345
अनुष्टुप्
गव्यं क्षीरादिके ज्यायां रागवस्तुनि गोहिते ।गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः ॥ ३४६ ॥
2.24.346
अनुष्टुप्
गुह्यमुपस्थे रहस्ये गृह्यं तु मलवर्त्मनि ।गुह्योऽस्वैरिणि पक्ष्ये च गृहासक्तभृगाण्डजे ॥ ३४७ ॥
2.24.347
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
गृह्या तु शाखानगरे गेयौ गातव्यगायनौ ।गोप्यौ दासेरगोप्तव्यौ चयः प्राकारपीठभूः ॥ ३४८ ॥
2.24.348
अनुष्टुप्
समूहेऽप्यथ चव्या स्याच्चविकाशतपर्वयोः ।चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥ ३४९ ॥
2.24.349
अनुष्टुप्
चैत्यं जिनौकस्तद्विम्बं चेत्यो जिनसभातरुः ।उद्देश्यवृक्षश्चोद्यं तु प्रेर्ये प्रश्नेऽद्भुतेऽपि च ॥ ३५० ॥
2.24.350
अनुष्टुप्
छाया पङ्क्तौ प्रतिमायामर्कयोषित्यनातपे ।उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ॥ ३५१ ॥
2.24.351
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
जयो जयन्ते विजये जयोमा तत्सखी तिथिः ।पथ्या जयन्त्यग्निमन्थे जन्यो जामातृवत्सले ॥ ३५२ ॥
2.24.352
अनुष्टुप्
जनके जननीये च नवोढानुचरादिके ।जन्यं कौलीने युध्यट्टे जन्या मातृसखीमुदोः ॥ ३५३ ॥
2.24.353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि ।तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे ॥ ३५४ ॥
2.24.354
अनुष्टुप्
अश्वकर्माह्वयतरौ स्यात्तार्क्ष्यं तु रसाञ्जने ।तिष्यः पुष्यवत्कलौ भे तिष्या त्वामलकीतरौ ॥ ३५५ ॥
2.24.355
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्य (wrong syllable)
द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः ।विनये भेषजे रीर्य्यां दस्युः प्रत्यर्थिचौरयोः ॥ ३५६ ॥
2.24.356
अनुष्टुप्
दायो दाने यौतकादिधने सोल्लुण्ठभाषणे ।विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः ॥ ३५७ ॥
2.24.357
अनुष्टुप्
द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे ।दूषणीये चाथ दैत्योऽसुरे दैत्या सुरौषधौ ॥ ३५८ ॥
2.24.358
अनुष्टुप्
धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ।धान्यं तु व्रीहौ धन्याके धिष्ण्यं स्थानोडुवेश्मसु ॥ ३५९ ॥
2.24.359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हौ (wrong syllable)
बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु ।नीतिद्यूतभिदोः पथ्यं हितं पथ्या हरीतकी ॥ ३६० ॥
2.24.360
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्नौ (wrong syllable)
पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोके पद्या तु वर्त्मनि ।प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः ॥ ३६१ ॥
2.24.361
अनुष्टुप्
प्रियो वृद्ध्यौषधे हृद्ये पत्यौ पुण्यं तु सुन्दरे ।सुकृते पावने धर्मे पूज्यः श्वसुरवन्द्ययोः ॥ ३६२ ॥
2.24.362
अनुष्टुप्
बल्यं रेतोबलकृतोर्भयं भीतौ भयङ्करे ।कुब्जकपुष्पे भव्यं तु फले योग्ये शुभेऽस्थनि ॥ ३६३ ॥
2.24.363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ब्ज (wrong syllable)
सत्ये भाविनि भव्यस्तु कर्मरङ्गतरौ सति ।भव्योमाकरिपिप्पल्योर्भाग्यं कर्म शुभाशुभम् ॥ ३६४ ॥
2.24.364
अनुष्टुप्
मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः ।मयुर्मृगाश्वमुखयोर्मन्युर्दैत्ये क्रतौ क्रुधि ॥ ३६५ ॥
2.24.365
अनुष्टुप्
माल्यं मालाकुसुमयोः स्यान्माया शाम्बरी कृपा ।दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥ ३६६ ॥
2.24.366
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्ब (wrong syllable)
मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये ।याम्याऽवाच्यां भरण्यां च योग्यो योगार्हशक्तयोः ॥ ३६७ ॥
2.24.367
अनुष्टुप्
उपायिनि प्रवीणे च योग्यमृद्ध्याह्वयौषधौ ।योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ ३६८ ॥
2.24.368
अनुष्टुप्
रम्या रात्रावथ रथ्यो रथांशे रथवोढरि ।रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे ॥ ३६९ ॥
2.24.369
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
रुप्यमाहतहेमादौ रजते रुपवत्यपि ।लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ ३७० ॥
2.24.370
अनुष्टुप्
लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः ।विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजःप्रभावयोः ॥ ३७१ ॥
2.24.371
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्ये (wrong syllable)
शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च ।वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे ॥ ३७२ ॥
2.24.372
अनुष्टुप्
वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे ।नृपभेदेऽश्वाविधि च सीम्नि शस्त्रशलाकयोः ॥ ३७३ ॥
2.24.373
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्वा (wrong syllable)
शय्या तल्पे शब्दगुम्फे शून्यं बिन्दौ च निर्जने ।शून्या तु नलिका शौर्यं चारभट्यां बलेऽपि च ॥ ३७४ ॥
2.24.374
अनुष्टुप्
सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं दक्षिणे ।वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥ ३७५ ॥
2.24.375
अनुष्टुप्metre not read in every line
तथ्ये तद्वति सत्यस्तु लोकभित्संख्यमाहवे ।संख्यैकादौ विचारे च सन्ध्या कालनदीभिदोः ॥ ३७६ ॥
2.24.376
अनुष्टुप्
चिन्तायां संश्रवे सीम्नि सन्धाने कुसुमान्तरे ।साध्यो योगे साधनीये गणे दैवतभिद्यपि ॥ ३७७ ॥
2.24.377
अनुष्टुप्
सायः शरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः ।सेव्यमुशीरे सेवार्हे सैन्यं सैनिकसेनयोः ॥ ३७८ ॥
2.24.378
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable); pāda 3, syllable 2 व्य (wrong syllable)
सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते ।सौम्याः पुनर्मृगशिरःशिरःस्थाः पञ्चतारकाः ॥ ३७९ ॥
2.24.379
अनुष्टुप्
हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके ।हृत्प्रिये हृद्धिते हृज्जे हृद्या तु वृद्धिभेषजे ॥ ३८० ॥
2.24.380
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
हृद्यस्तु वशकृन्मन्त्रे
2.24.46