All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरजान्ताः
इति त्रिस्वरचान्ताः ।
अण्डजः स्यात्कक्किण्डेऽहौ खगे झषे ।अण्डजा मृगनाभ्यां स्यादङ्गजो मन्मथे सुते ॥ १४० ॥
3.6.140
अनुष्टुप्metre not read in every line
मदे केशे सुन्दरे च कम्बोजो नीवृदन्तरे ।शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः ॥ १४१ ॥
3.6.141
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्ति (wrong syllable)
काम्बोजः पुनरश्वानां भेदे पुन्नागपादपे ।वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ १४२ ॥
3.6.142
अनुष्टुप्
कारुजः कलभे फेने वल्मीके नागकेसरे ।गैरिके शिल्पिनां चित्रे स्वयं जाततिलेऽपि च ॥ १४३ ॥
3.6.143
अनुष्टुप्
कुटजोऽगस्त्ये द्रुभेदे द्रोणे गिरिजमभ्रके ।शिलाजतुनि लोहे च गिरिजा मातुलुङ्ग्युमा ॥ १४४ ॥
3.6.144
अनुष्टुप्
बाहुजस्तु स्वयंजाते तिले क्षत्रियकीरयोः ।भूमिजौ नरकाङ्गारौ भूमिजा जनकात्मजा ॥ १४६ ॥
3.6.146
अनुष्टुप्
वलजं गोपुरे सस्ये क्षेत्रसङ्गरयोरपि ।सदाकारे वलजा तु पृथिव्यां वरयोषिति ॥ १४७ ॥
3.6.147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
वनजो मुस्तके स्तम्बेरमे वनजमम्बुजे ।वनजा तु मुद्गपर्ण्यां सहजः सहसम्भवे ॥ १४८ ॥
3.6.148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च ।हिमजो मेनकापुत्रे हिमजा पार्वती शटी ॥ १४९ ॥
3.6.149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)