कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरपान्ताः

इति त्रिस्वरनान्ताः ।

अनूपस्तु सैरिभे ॥ ४६७ ॥
3.18.467
जलप्रयेऽप्यथाऽऽवापः पानभेदालवालयोः ।प्रक्षेपे भाण्डपवनेऽप्याक्षेपः परिभर्त्सने ॥ ४६८ ॥
3.18.468
अनुष्टुप्
काव्यालङ्करणाकृष्ट्योः स्यादाकल्पः प्रसाधने ।कल्पने वाप्युलपस्तु गुल्मिनीतृणभेदयोः ॥ ४६९ ॥
3.18.469
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
उडुपः प्लवशीतांश्वोः कलापो बर्हितूणयोः ।संहतौ भूषणे काञ्च्यां कच्छपो मल्लबन्धने ॥ ४७० ॥
3.18.470
अनुष्टुप्
कमठे कच्छपी वीणा कशिपुर्भोज्यवस्त्रयोः ।एकैकस्मिन्द्वयोश्चचापि कश्यपो मुनिमीनयोः ॥ ४७१ ॥
3.18.471
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
काश्यप्युर्व्यां कुतपस्तु छागकम्बलदर्भयोः ।वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि ॥ ४७२ ॥
3.18.472
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
भागिनेयेऽष्टमांशेऽह्नो वाद्येऽथ कुटपो मुनौ ।निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि ॥ ४७३ ॥
3.18.473
अनुष्टुप्
शवे जिह्वापस्तु शुनि व्याघ्रे द्वीपिबिडालयोः ।प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः ॥ ४७४ ॥
3.18.474
अनुष्टुप्
रक्तपो रक्षो रक्तपा जलौका विटपः पुनः ।पल्लवेऽपि च वृक्षेषु विस्तारे षिड्गशाखयोः ॥ ४७५ ॥
3.18.475
अनुष्टुप्metre not read in every line
सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ।
3.18.10