All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरनान्ताः
इति द्विस्वरधान्ताः ।
अन्नं भक्तेऽशितेऽर्वाश्वेऽधमेऽध्वा कालवर्त्मनोः ।संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ ॥ २५३ ॥
2.18.253
अनुष्टुप्
आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे ।परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ २५४ ॥
2.18.254
अनुष्टुप्
स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे ।ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि ॥ २५५ ॥
2.18.255
अनुष्टुप्
कर्म कारकभेदे स्यात्क्रियायां च शुभाशुभे ।कामी स्यात्कमने चक्रवाके पारावतेऽपि च ॥ २५६ ॥
2.18.256
अनुष्टुप्
कृती योग्ये बुधे खड्गी गण्डके खड्गधारिणि ।ग्रावाश्मनि गिरौ गोमी फेरौ गोमत्युपासके ॥ २५७ ॥
2.18.257
अनुष्टुप्
घनः सान्द्रे दृढे दार्ढ्ये विस्तारे मुद्गरेऽम्बुदे ।सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रकारयोः ॥ २५८ ॥
2.18.258
अनुष्टुप्
चर्म त्वचि स्फरे चर्मी भूर्जे फलकिभृङ्गिणोः ।चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥ २५९ ॥
2.18.259
अनुष्टुप्
चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु ।व्रीहौ वस्त्रे छद्म शाठ्येऽपदेशे घातिकर्मणि ॥ २६० ॥
2.18.260
अनुष्टुप्
छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी ।छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने ॥ २६१ ॥
2.18.261
अनुष्टुप्
जनी स्नुषावनितयोर्जिनोऽर्हद्बुद्धविष्णुषु ।ज्योत्स्ना स्याज्ज्योतिःसंयुक्तनिशि चन्द्रातपेऽपि च ॥ २६२ ॥
2.18.262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तिः (wrong syllable)
ज्यौत्स्नी पटोली ज्योत्स्नावन्निशोस्तनुर्वपुस्त्वचोः ।विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयोः ॥ २६३ ॥
2.18.263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
दानं मतं गजमदे रक्षणच्छेदशुद्धिषु ।विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ २६४ ॥
2.18.264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः ।धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ॥ २६५ ॥
2.18.265
अनुष्टुप्
धनुःशब्दः पियालद्रौ राशिभेदे धनुष्यपि ।धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ॥ २६६ ॥
2.18.266
अनुष्टुप्
धाना भृष्टयवेऽङ्कुरे धान्याके चूर्णसक्तुषु ।धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २६७ ॥
2.18.267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ङ्कु (wrong syllable)
मागधे क्षपणके च नन्दी गिरिशवेत्रिणि ।गर्दभाण्डे वटे न्यूनं हीनवच्चोनगर्ह्ययोः ॥ २६८ ॥
2.18.268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु ।दर्शप्रतिपत्सन्धौ च तिथिग्रन्थविशेषयोः ॥ २६९ ॥
2.18.269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
पक्ष्माऽक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे ।गरुत्किञ्जल्कयोश्चापि पत्त्री काण्डे खगे द्रुमे ॥ २७० ॥
2.18.270
अनुष्टुप्
रथेऽद्रौ रथिके श्येने प्रेम तु स्नेहनर्मणोः ।ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २७१ ॥
2.18.271
अनुष्टुप्
ऋत्विग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।भर्म भारे भृतौ हेम्नि भानिरंशौ रवौ दिने ॥ २७२ ॥
2.18.272
अनुष्टुप्
भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजङ्गमे ।वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च ॥ २७३ ॥
2.18.273
अनुष्टुप्
मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ।मीनो मन्स्ये राशिभेदे मृत्स्ना तुवर्यपि ॥ २७४ ॥
2.18.274
अनुष्टुप्metre not read in every line
यानं युग्ये गतौ योनिः कारणे भगताम्रयोः ।रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे ॥ २७५ ॥
2.18.275
अनुष्टुप्
निशाकरे प्रभौ शक्रे यक्षक्षत्रिययोरपि ।रास्नैलापर्णी सर्पाक्ष्योः रागी कामिनि रङ्क्तरि ॥ २७६ ॥
2.18.276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्णी (wrong syllable)
रोही रोहीतकेऽश्वत्थे वटे लग्नं तु लज्जिते ।राशीनामुदये सक्ते लक्ष्म प्रधानचिन्हह्नयोः ॥ २७७ ॥
2.18.277
अनुष्टुप्metre not read in every line
वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ।वस्नं वस्त्रे धने मूल्ये भृतौ वर्ष्म पुनस्तनौ ॥ २७८ ॥
2.18.278
अनुष्टुप्
प्रमाणे सुन्दराकारे वर्त्म नेत्रच्छदेऽध्वनि ।वर्णी पुनश्चित्रकरे लेखके ब्रह्मचारिणि ॥ २७९ ॥
2.18.279
अनुष्टुप्
वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ।विन्नं विचारिते लब्धे स्थिते वृषा तु वासवे ॥ २८१ ॥
2.18.281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
वृषभे तुरङ्गे पुंसि शाखी तु द्रुमवेदयोः ।राजभेदे शिखी त्वग्नौ वृक्षे केतुग्रहे शरे ॥ २८२ ॥
2.18.282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
चूडावति बलीवर्दे मयूरे कुक्कुटे हये ।शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्त्रिणि ॥ २८३ ॥
2.18.283
अनुष्टुप्
स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थित्यवकाशयोः ।सादृश्ये सन्निवेशे च स्नानं स्नानीय आप्लवे ॥ २८४ ॥
2.18.284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सु (wrong syllable)
स्त्यानं स्यात्स्निग्ध आलस्ये प्रतिध्वानघनत्वयोः ।सादी तुरङ्गमारोहे निषादिरथिनोरपि ॥ २८५ ॥
2.18.285
अनुष्टुप्
स्वामी प्रभौ गुहे सूनं पुष्पे सूना पुनः सुता ।अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ ॥ २८६ ॥
2.18.286
अनुष्टुप्