कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरहान्ताः

इति द्विस्वरसान्ताः ।

अहिः सर्पे वृत्रे वप्रे स्यादीहोद्यमवाञ्छयोः ।कुहूर्नष्टेन्दुदर्शे स्यात्क्वणिते कोकिलस्य च ॥ ५८३ ॥
2.31.583
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे ।उपरागे पूतनादावादित्यादौ विधुन्तुदे ॥ ५८४ ॥
2.31.584
अनुष्टुप्
ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः ।गह्वरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि ॥ ५८५ ॥
2.31.585
अनुष्टुप्
प्रौहो निपुणतर्के स्याद्गजाङ्घ्रिपर्वणोरपि ।बर्हः पर्णे परीवारे कलापे बहु भूयसि ॥ ५८६ ॥
2.31.586
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्घ्रि (wrong syllable)
त्र्यादिकासु च संख्यासु महावुत्सवतेजसी ।मही भुवि नदीभेदे मोहौ मूर्च्छाविपर्ययौ ॥ ५८७ ॥
2.31.587
अनुष्टुप्
लोहं कालायसे सर्वतेजसे जोङ्गिकेऽपि च ।वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ॥ ५८८ ॥
2.31.588
अनुष्टुप्
वृषे वाहा तु वाहौ स्याद् व्यूहो निर्वाणतर्कयोः ।समूहे बलविन्यासे सहः क्षमे बलेऽपि च ॥ ५८९ ॥
2.31.589
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable)
सहोर्व्यां सहदेवायां कुमार्यां नखभेषजे ।मूद्गपर्ण्यां च सिंहस्तु राशिभेदे मृगाधिपे ॥ ५९० ॥
2.31.590
अनुष्टुप्
श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि ।वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥ ५९१ ॥
2.31.591
अनुष्टुप्