कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरहान्ताः

इति चतुःस्वरसान्ताः ।

अवग्रहो ज्ञानभेदे ह्यस्वातन्त्र्ये गजालिके ।प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे ॥ ३५१ ॥
4.27.351
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ग्र (wrong syllable)
अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ।तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके ॥ ३५२ ॥
4.27.352
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable)
अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने ।बन्द्युपयोगयोश्चोपनाहो वीणानिबन्धने ॥ ३५३ ॥
4.27.353
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable); pāda 3, syllable 3 प (wrong syllable)
व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ।गन्धवहा तु नासायां तमोपहो जिने रवौ ॥ ३५४ ॥
4.27.354
metre not recognised
चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च ।प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे ॥ ३५५ ॥
4.27.355
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि ।परिग्रहः परिजने पत्न्यां स्वकारमूलयोः ॥ ३५६ ॥
4.27.356
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable); pāda 4, syllable 3 स्व (wrong syllable)
शापेऽथ परिवाहोऽम्बूच्छ्वासे राजार्हवस्तुनि ।परिबर्हः परीवारे पार्थिवोचितवस्तुनि ॥ ३५७ ॥
4.27.357
अनुष्टुप्
पितामहः पद्मयोनौ जनके जनकस्य च ।महासहा स्यादम्लानकुसुमं माषपर्ण्यपि ॥ ३५८ ॥
4.27.358
अनुष्टुप्
वरारोहो गजारोहे वरारोहा कटावपि ।सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ ॥ ३५९ ॥
4.27.359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)