All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरटान्ताः
इति चतुःस्वरजान्ताः ।
अथोच्चिङ्गटः कोपने मीनभिद्यपि ।करहाटः पद्मकन्दे पुष्पद्रुमविशेषयोः ॥ ५९ ॥
4.6.59
metre not recognised
कार्यपुटोऽनर्थकरे कृपणोन्मत्तयोरपि ।कामकूटौ वेश्याविभ्रमेष्ठावथ कुटन्नटः ॥ ६० ॥
4.6.60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्य (wrong syllable); pāda 3, syllable 5 वे (wrong syllable)
शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः ।विप्रापुत्रे धवे दास्याश्चार्वाकोक्तिविशारदे ॥ ६१ ॥
4.6.61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
खञ्जरीटस्तु फलकेऽसिधाराव्रतचारिणि ।गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च ॥ ६२ ॥
4.6.62
अनुष्टुप्metre not read in every line
गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि ।चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥ ६३ ॥
4.6.63
अनुष्टुप्
चतुःषष्टिश्चतुःषष्टिकलासु च हवेऽपि च ।तुलाकोटिर्मानभेदेऽर्बुदे स्यान्नूपुरेऽपि च ॥ ६४ ॥
4.6.64
अनुष्टुप्
नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके ।प्रतिकृष्टं तु गुह्ये स्याद्द्विरावृत्त्या च कर्षिते ॥ ६५ ॥
4.6.65
अनुष्टुप्
प्रतिसृष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च ।परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना ॥ ६६ ॥
4.6.66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः ।स्त्रीणां पयोधरोत्सेधकान्तदत्तनखेऽपि च ॥ ६७ ॥
4.6.67
अनुष्टुप्
शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि ।श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः ॥ ६८ ॥
4.6.68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)