कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरलान्ताः

इति द्विस्वररान्ताः ।

अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे ।अम्ली चाङ्गेर्यामालं स्यादनर्थहरितालयोः ॥ ४६३ ॥
2.26.463
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 5 र्या (wrong syllable)
आलिः सख्यावलीसेत्वनर्थेषु विशदाशये ।आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः ॥ ४६४ ॥
2.26.464
अनुष्टुप्
इलोर्वी वाग्बुधस्त्री गौः कलं त्वजीर्णरेतसोः ।अव्यक्तमधुरध्वाने कला स्यात्कालशिल्पयोः ॥ ४६५ ॥
2.26.465
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्व (wrong syllable)
कलने मूलरैवृद्धौ षोडशांशे विधोरपि ।कलिर्बिभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ ४६६ ॥
2.26.466
अनुष्टुप्
कालः पुनः कुष्णवर्णे महाकालकृतान्तयोः ।मरणानेहसोः काली कालिकाक्षीरकीटयोः ॥ ४६७ ॥
2.26.467
अनुष्टुप्
मातृभेदोमयोर्नव्यमेघौघपरिवादयोः ।काला कृष्णत्रिवृन्नील्योर्जिग्यां कीलोऽग्नितेजसि ॥ ४६८ ॥
2.26.468
अनुष्टुप्
कफणिस्तम्भयोः शङ्कौ कीला रताहतावपि ।कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४६९ ॥
2.26.469
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि ।कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ ॥ ४७० ॥
2.26.470
अनुष्टुप्
कोलं तु बदरे कोला पिपल्ल्यां चव्यभेषजे ।खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ॥ ४७१ ॥
2.26.471
अनुष्टुप्
खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥ ४७२ ॥
2.26.472
अनुष्टुप्
गलः कण्ठे सर्जरसे गोलः स्यात्सर्ववर्तुले ।गोला पत्राञ्जने गोदावर्य्यां सख्यामलिञ्जरे ॥ ४७३ ॥
2.26.473
अनुष्टुप्
मण्डले च कुनद्यां च बालक्रीडनकाष्ठके ।चिल्लः खगे स चुल्लश्च पिल्लवत् क्लिन्नलोचने ॥ ४७४ ॥
2.26.474
अनुष्टुप्
क्लिन्नाक्ष्णि चुल्ली तूद्धाने चेलं गर्हितवस्त्रयोः ।छलं छद्मस्खलितयोश्छल्ली सन्तानवीरुधोः ॥ ४७५ ॥
2.26.475
अनुष्टुप्
वल्कले पुष्पभेदे च जलं गोकलले जडे ।ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४७६ ॥
2.26.476
अनुष्टुप्
दम्भानाययोश्च जालो नीपे जाली पटोलिका ।झला पुत्र्यामातपोर्मौ झिल्ली तूद्वर्तनाशके ॥ ४७७ ॥
2.26.477
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
वर्त्यातपरुचोश्चीर्य्यां तलं ज्याधातवारणे ।तलश्चपेटे तालद्रौ स्वभावाधरयोः त्सरौ ॥ ४७८ ॥
2.26.478
अनुष्टुप्
तल्लो जलाधारभेदे तल्ली तु वरुणस्त्रियाम् ।तालः कालक्रियामाने हस्तमानद्रुभेदयोः ॥ ४७९ ॥
2.26.479
अनुष्टुप्
करास्फोटे करतले हरिताले त्सरावपि ।तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥ ४८० ॥
2.26.480
अनुष्टुप्
गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिचौ ।ब्रह्मदारुण्यथ दलं शस्त्रिच्छदेऽर्द्धपर्णयोः ॥ ४८१ ॥
2.26.481
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्छ (wrong syllable)
उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे ।पितृदैवे नलं तु स्यात्पद्मे नली मनःशिला ॥ ४८२ ॥
2.26.482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
नालं काण्डे मृणाले च नाली शाककदम्बके ।नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥ ४८३ ॥
2.26.483
अनुष्टुप्
नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः ।पल्लिस्तु ग्रामके कुट्यां पालिर्यूकाश्रिपङ्क्तिषु ॥ ४८४ ॥
2.26.484
अनुष्टुप्
जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने ।प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ॥ ४८५ ॥
2.26.485
अनुष्टुप्
पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे ।तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च ॥ ४८६ ॥
2.26.486
अनुष्टुप्
फलं हेतुकृते जातीफले फलकसस्ययोः ।त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः ॥ ४८७ ॥
2.26.487
अनुष्टुप्
फली फलिन्यां फालं तु वाससि फाल उत्प्लुतौ ।कुशिके च बलं रूपे स्थामनि स्थौल्यसैन्ययोः ॥ ४८८ ॥
2.26.488
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
बोले बलस्तु बलिनि काके दैत्ये हलायुधे ।बला त्वौषधिभेदे स्याद्बलिर्दैत्योपहारयोः ॥ ४८९ ॥
2.26.489
अनुष्टुप्
करे चामरदण्डे च गृहदारूदरांशयोः ।त्वक्सङ्कोचे गन्धके च बालोऽज्ञेऽश्वेभपुच्छयोः ॥ ४९० ॥
2.26.490
अनुष्टुप्
शिशौ ह्रीवेरकचयोर्बाला तु त्रुटियोषितोः ।बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये ॥ ४९१ ॥
2.26.491
अनुष्टुप्
बिलं रन्ध्रे गुहायां च भल्लो भल्लूकबाणयोः ।भल्ली भल्लातके भालं स्यल्ललाटे महस्यपि ॥ ४९२ ॥
2.26.492
अनुष्टुप्
भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते ।मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥ ४९३ ॥
2.26.493
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
किट्टे कदर्ये विष्टायां मालं तु कपटे वने ।मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि ॥ ४९४ ॥
2.26.494
अनुष्टुप्
मालुः स्त्रियां पत्रवल्ल्यां मूलं पार्श्वद्ययोरुडौ ।निकुञ्जशिफयोर्मेला त्वञ्जने मेलकेऽपि च ॥ ४९५ ॥
2.26.495
अनुष्टुप्
मौलिः किरीटे धम्मिल्ले चूडाकङ्केल्लिमूर्द्धसु ।लीला केलिर्विलासश्च शृङ्गारभावजक्रिया ॥ ४९६ ॥
2.26.496
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः ।वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥ ४९७ ॥
2.26.497
अनुष्टुप्
व्यालो दुष्टगजे सर्पे शठे श्वापदसिंहयोः ।वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥ ४९८ ॥
2.26.498
अनुष्टुप्
अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः ।शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ४९९ ॥
2.26.499
अनुष्टुप्
स्कन्धशाखायां शालिस्तु गन्धोतौ कलमादिषु ।शालुः कषायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥ ५०० ॥
2.26.500
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable)
शिलमुञ्छः शिला द्वाराऽधोदारु कुनटी दृषत् ।शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ॥ ५०१ ॥
2.26.501
अनुष्टुप्
शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः ।योगे शूला तु पण्यस्त्री वधहेतुश्च कीलकः ॥ ५०२ ॥
2.26.502
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शु (wrong syllable)
शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके ।सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५०३ ॥
2.26.503
अनुष्टुप्
स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः ।स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥ ५०४ ॥
2.26.504
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
हाला सुरायां हेला तु स्यादवज्ञाविलासयोः ।हेलिरालिङ्गने सूर्येऽपि
2.26.43
अनुष्टुप्metre not read in every line