कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरषान्ताः

इति त्रिस्वरशान्ताः ।

अध्यक्षोऽधिकृतेऽन्वक्षेऽभीषुः प्रग्ररोचिषोः ।आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पले ॥ ७७० ॥
3.27.770
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुन्दराकाररूपादौ सम्भोगे लोभलञ्चयोः ।आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूत इन्द्रिये ॥ ७७१ ॥
3.27.771
अनुष्टुप्
आकृष्टे शारिफलकेऽप्युष्णीषं लक्षणान्तरे ।शिरोवेष्टे किरीटे स्यादुत्प्रेक्षाऽनवधानके ॥ ७७२ ॥
3.27.772
अनुष्टुप्
काव्यालङ्करणे वापि कलुषं त्वाविलांऽहसोः ।कल्माषो राक्षसे कृष्णे शबलेऽप्यथ किल्विषम् ॥ ७७३ ॥
3.27.773
अनुष्टुप्
पापे रोगऽपराधे च कुल्माषं स्यात्तु काञ्जिके ।कुल्माषोऽर्द्धस्विन्नधान्ये यावके चणकेऽपि च ॥ ७७४ ॥
3.27.774
अनुष्टुप्
गवाक्षी त्विन्द्रवारुण्यां गवाक्षो जालके कपौ ।गण्डूषो मुखपूर्त्तौ स्याद् गजहस्ताङ्गुलावपि ॥ ७७५ ॥
3.27.775
अनुष्टुप्
प्रसूत्या प्रमितेऽपि स्याद् गोरक्षो धेनुगोप्तरि ।नारङ्गे च जिगीषा तु विजयेच्छाप्रकर्षयोः ॥ ७७६ ॥
3.27.776
अनुष्टुप्
व्यवसायो तरीषस्तु शोभनाकारभेलयोः ।समुद्रे व्यवसाये च तारिषोऽब्धिसुवर्णयोः ॥ ७७७ ॥
3.27.777
अनुष्टुप्
स्वर्गे च नहुषो राजविशेषे नागभिद्यपि ।निकषः शाणपाषाणे निकषा यातुमातरि ॥ ७७८ ॥
3.27.778
अनुष्टुप्
निमेषनिमिषौ नेत्रमीलने कालभिद्यपि ।प्रत्यूषः स्याद्वसौ प्रातः प्रदोषः कालदोषयोः ॥ ७७९ ॥
3.27.779
अनुष्टुप्
परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।पीयूषममृते नव्यसूतधेनुपयस्यपि ॥ ७८० ॥
3.27.780
अनुष्टुप्
पुरुषस्त्वात्मनि नरे पुन्नागे चाथ पौरुषम् ।ऊर्द्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ ७८१ ॥
3.27.781
अनुष्टुप्
पुंसः कर्मणि भावे च महिषी नृपयोषिति ।सैरभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः ॥ ७८२ ॥
3.27.782
अनुष्टुप्
मारिषा दक्षजननी मृगाक्षी मृगलोचना ।त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ॥ ७८३ ॥
3.27.783
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्र (wrong syllable)
चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः ।मृगकत्तृणमत्स्येषु विश्लेषस्तु वियोजने ॥ ७८४ ॥
3.27.784
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
विधुरे च विशेषस्तु व्यक्ताववयवेऽपि च ।आधिक्ये चाथ शुश्रूषोपासनाश्रवणेच्छयोः ॥ ७८५ ॥
3.27.785
अनुष्टुप्
शैलूषः स्यान्नटे बिल्वे संहर्षः पवने मुदि ।स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे ॥ ७८६ ॥
3.27.786
अनुष्टुप्