कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरपान्ताः

इति चतुःस्वरनान्ताः ।

अवलेपो गर्वलेपयोः ॥ २१२ ॥
4.16.212
दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ।उपतापो गदे तापे जलकूप्यन्धुगर्भके ॥ २१३ ॥
4.16.213
अनुष्टुप्
सरस्यां जीवपुष्पं तु दमनके फणिज्जके ।नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥ २१४ ॥
4.16.214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
परिवापो जलस्थाने पर्युप्तिपरिवारयोः ।परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः ॥ २१५ ॥
4.16.215
अनुष्टुप्
पिण्डपुष्पं जवायां स्यादशोके सरसीरुहे ।बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥ २१६ ॥
4.16.216
अनुष्टुप्
मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च ।विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ २१७ ॥
4.16.217
अनुष्टुप्
वृगधूपो वृक्षधूपे सिह्लकेऽथ वृषाकपिः ।वासुदेवे शिवेऽग्नौ च हेमपुष्पं तु चम्पके ॥ २१८ ॥
4.16.218
अनुष्टुप्
अशोकद्रौ जपापुष्पे -
4.16.8