कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वररान्ताः

इति चतुःस्वरयान्ताः ।

अभिमरो वधे ॥ २४० ॥
4.21.240
स्वबलात्साध्वसे युद्धेऽवसरो वत्सरे क्षणे ।अरुष्करं व्रणकरे भल्लातकफलेऽपि च ॥ २४१ ॥
4.21.241
अनुष्टुप्
अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः ।निरुत्तरे च श्रेष्ठे चाऽवस्करो गूथगुह्ययोः ॥ २४२ ॥
4.21.242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
अभिहारः संनहने चौरिकोद्यमयोरपि ।अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ २४३ ॥
4.21.243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु ।उपमादावकूपारः कूर्मराजसमुद्रयोः ॥ २४४ ॥
4.21.244
अनुष्टुप्
अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च ।अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥ २४५ ॥
4.21.245
अनुष्टुप्
कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः ।चन्द्रके बाणभेदे चाऽर्धचन्द्रा त्रिवृताभिदि ॥ २४६ ॥
4.21.246
अनुष्टुप्
आत्मवीरो बलवति श्यालपुत्रे विदूषके ।आडम्बरः क्षमारम्भे बृंहिते तूर्य्यनिस्वने ॥ २४७ ॥
4.21.247
अनुष्टुप्
इन्दीवरं नीलोत्पलमिन्दीवरी शतावरी ।उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ २४८ ॥
4.21.248
metre not recognised
उपचारस्तु लञ्चायां व्यवहारोपचर्ययोः ।उदुम्बरः कुष्ठभेदे देहल्यां व्यवहारोपचर्ययोः ॥ २४९ ॥
4.21.249
अनुष्टुप्metre not read in every line
उदुम्बरं ताम्र उपह्वरं रहसि सन्निधौ ।उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ २५० ॥
4.21.250
अनुष्टुप्
औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके ।भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ २५१ ॥
4.21.251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
मूर्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले ।करवीरो हयमारे कृपाणे दैत्यभिद्यपि ॥ २५२ ॥
4.21.252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
करवीरी पुत्रवत्यां सद्गव्यामदितावपि ।कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥ २५३ ॥
4.21.253
अनुष्टुप्
कर्णपूरः स्याच्छिरीषे नीलोत्पलवतंसयोः ।कटम्भरा प्रसारण्यां गोलायां गजयोषिति ॥ २५४ ॥
4.21.254
अनुष्टुप्
कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि ।कालञ्जरो भैरवाद्योर्योगिचक्रस्य मेलके ॥ २५५ ॥
4.21.255
अनुष्टुप्
कादम्बरं दधिसारे सीधुमद्यप्रभेदयोः ।कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥ २५६ ॥
4.21.256
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 धि (wrong syllable)
कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका ।कृष्णसारः शिंशापायां मृगभेदे स्नुहीतरौ ॥ २५७ ॥
4.21.257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शिं (wrong syllable)
गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते ।घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ २५८ ॥
4.21.258
अनुष्टुप्
चर्मकारः पादूकृति चर्मकार्योषधीभिदि ।चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि ॥ २५९ ॥
4.21.259
metre not recognised
चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि ।चित्राटीरो घण्टाकर्णबलिच्छागास्त्रबिन्दुभिः ॥ २६० ॥
4.21.260
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 घ (wrong syllable)
अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले ।स्यात्तालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे ॥ २६१ ॥
4.21.261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ङ्कि (wrong syllable)
तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे ।वाणिजे तुण्डिकेरी तु कार्पासी बिम्बिकाऽपि च ॥ २६२ ॥
4.21.262
अनुष्टुप्
तोयधारो जलधरे सुनिषण्णाख्यभेषजे ।दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥ २६३ ॥
4.21.263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पु (wrong syllable)
दण्डधारो यमे राज्ञि दम्डयात्रा तु दिग्जये ।संयाने वरयात्रायां दिगम्बरस्तु शङ्करे ॥ २६४ ॥
4.21.264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्ब (wrong syllable)
अन्धकारे क्षपमके स्याद्वस्त्ररहितेऽपि च ।दुरोदरः पुनर्द्यूते द्यूतकारे पणेऽपि च ॥ २६५ ॥
4.21.265
अनुष्टुप्
देहयात्रा यमपुरीगमने भोजनेऽपि च ।द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः ॥ २६६ ॥
4.21.266
अनुष्टुप्
कृष्णेऽद्रौ धाराधरस्तु पयोदकरवालयोः ।धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ॥ २६७ ॥
4.21.267
अनुष्टुप्
धार्तराष्ट्रः कौरवेऽहौ कृष्णास्याङ्घ्रिसितच्छदे ।धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥ २६८ ॥
4.21.268
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ह (wrong syllable)
पदालिकोऽप्यथ धुरन्धरो धुर्ये धवद्रुमे ।धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे ॥ २६९ ॥
4.21.269
अनुष्टुप्
धृतराष्ट्री हंसपद्यां नभश्चरः खगेऽम्बुदे ।विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥ २७० ॥
4.21.270
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
सर्पे घूके शृगाले च निशाचरी तु पांसुला ।निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ २७१ ॥
4.21.271
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 द्व (wrong syllable)
नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने ।प्रतीहारो द्वारि द्वास्थे प्रतीकारः समे भटे ॥ २७२ ॥
4.21.272
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable); pāda 3, syllable 5 द्वा (wrong syllable)
प्रतिसरश्चमूपृष्ठे नियोज्यकरसूत्रयोः ।मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥ २७३ ॥
4.21.273
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable); pāda 3, syllable 6 ण (wrong syllable)
कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः ।प्रगाढगात्रिकाबन्धे विवेकारम्भयोर्गणे ॥ २७४ ॥
4.21.274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
परिवारः परिजनेऽसिकोशेऽथ परम्परः ।मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे ॥ २७५ ॥
4.21.275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्प (wrong syllable)
परिपाट्यां परिसरः प्रान्तभूदैवयोर्मृतौ ।पक्षचरो यूथभ्रष्टपृथक्चरिगजे विधौ ॥ २७६ ॥
4.21.276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क्ष (wrong syllable)
पयोधरः कुचे मेघे कोशकारे कशेरुणि ।नालिकेरे पात्रटीरस्त्वपव्यापारमन्त्रिणि ॥ २७७ ॥
4.21.277
अनुष्टुप्
लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः ।पारावारः पयोराशौ पारावारं तटद्वये ॥ २७८ ॥
4.21.278
अनुष्टुप्
पारिभद्रस्तु मन्दारे निम्बे पीताम्बरोऽच्युते ।नटे च पीतसारस्तु गोमेदकमणौ स्मृतः ॥ २७९ ॥
4.21.279
अनुष्टुप्
मलयजे पूर्णपात्रं जलादिपूर्णभाजने ।वर्धापके बलभद्रस्त्वनन्ते बलशालिनि ॥ २८० ॥
4.21.280
metre not recognised
बलभद्रा कुमार्यां स्यात्त्रायमाणौषधावपि ।ब्रह्मपुत्रो नदभिदि क्षेत्रसङ्गरयोरपि ॥ २८१ ॥
4.21.281
अनुष्टुप्
वार्वटीरस्त्रपुम्याम्रास्थ्न्यङ्कुरे गणिकासुते ।वारकीरो भारग्राहिण्याराधिततुरङ्गमे ॥ २८२ ॥
4.21.282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
यूकायां वेणिवेधिन्यां भूत्रयीमुखयोरपि ।बिन्दुतन्त्रं पुनः शारिफलके च तुरङ्गके ॥ २८३ ॥
4.21.283
अनुष्टुप्
महावीरोऽन्तिमजिने परपुष्टे जराटके ।तार्क्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥ २८४ ॥
4.21.284
अनुष्टुप्
महामात्रः प्रधाने स्यादारोहकसमृद्धयोः ।मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ २८५ ॥
4.21.285
अनुष्टुप्
रथकारस्तक्षिणि स्यान्महिष्यात्करिण्यां सुते ।रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् ॥ २८६ ॥
4.21.286
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 रि (wrong syllable)
लम्बोदरः स्यादुद्धमाने प्रमथानां च नायके ।लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥ २८७ ॥
4.21.287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः ।वक्रनक्रौ खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः ॥ २८८ ॥
4.21.288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्भ (wrong syllable)
विश्वम्भरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः ।विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ २८९ ॥
4.21.289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे ।वीरतरो वीरश्रेष्ठे शरे वीरतरं पुनः ॥ २९० ॥
4.21.290
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 र (wrong syllable)
वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः ।शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥ २९१ ॥
4.21.291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
शतपत्रं तु राजीवे सम्प्रहारो गतौ रणे ।सहचरः पुनर्झिण्ट्यां वयस्ये प्रतिबन्धके ॥ २९२ ॥
4.21.292
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
समाहारस्तु संक्षेप एकत्रकरणेऽपि च ।समुद्रारुर्ग्राहभेदे सेतुबन्धे तिमिङ्गिले ॥ २९३ ॥
4.21.293
अनुष्टुप्
सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले ।पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ २९४ ॥
4.21.294
अनुष्टुप्
स्थिरद्रंष्ट्रो भुजङ्गे च वराहाकृतिशार्ङ्गिणि ।
4.21.56