कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरकान्ताः

इति त्रिस्वरहान्ताः ।

इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे त्रिस्वरकाण्डः समाप्तः ।

अथ चतुर्थः काण्डः ।

अङ्गारकस्तूल्मुकांशे महीपुत्रे कुरुण्टके ।अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके ॥ १ ॥
4.1.1
अनुष्टुप्
अलिपिकः पिके भृङ्गेऽलिमकः पद्मकेसरे ।मधूके कोकिले भेकेऽश्मन्तकं मल्लिकाच्छदे ॥ २ ॥
4.1.2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पि (wrong syllable)
चुल्यां चाऽऽक्षेपको व्याधे निन्दके वातरुज्यपि ।आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ॥ ३ ॥
4.1.3
अनुष्टुप्
आखनिकस्त्वाखुरिव किरावुन्दुरुचौरयोः ।उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि ॥ ४ ॥
4.1.4
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ख (wrong syllable); pāda 3, syllable 3 लि (wrong syllable)
एडमूकोऽनेडमूक इवावाक्श्रुरुतिके शठे ।कठिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥ ५ ॥
4.1.5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कर्क्कोटकोऽहौ बिल्वे च कनीनिकाऽक्षितारके ।स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥ ६ ॥
4.1.6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
उलूके स्त्रीजिते दम्भे भीरुके निर्द्धनेऽपि च ।कुरुबकः शोणाम्लानेऽरुणा पीता च झिण्टिका ॥ ७ ॥
4.1.7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 रु (wrong syllable)
कृकवाकुस्ताम्रचूडे मयूरकृकलासयोः ।कोशातकः कचे कोशातकी ज्योत्स्नी पटोलिका ॥ ८ ॥
4.1.8
अनुष्टुप्
घाषकेऽथ कौलेयकः सारमेयकुलीनयोः ।कौक्कुटिको दाम्भिके स्याददूरेरितलोचने ॥ ९ ॥
4.1.9
metre not recognised
गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये ।गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ १० ॥
4.1.10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
गोककण्टको गोक्षुरके गोखुरे स्थपुटीकृते ।गोकुलिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके ॥ ११ ॥
4.1.11
metre not recognised
घर्घरिका भ्रष्टधान्ये किङ्किण्यां सरिदन्तरे ।वादित्रस्य च दण्डेऽपि चाण्डालिकौषधीभिदि ॥ १२ ॥
4.1.12
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable); pāda 4, syllable 3 लि (wrong syllable)
किन्नरायामुमायां च जर्जरीकं जरातुरे ।बहुच्छिद्रेऽप्यथ जैवातृकः स्याद्रजनीकरे ॥ १३ ॥
4.1.13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
कृशायुष्मद्भेषजेषु तर्तरीकं वहित्रके ।पारगे त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ॥ १४ ॥
4.1.14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त्रि (wrong syllable)
त्र्यूषणं त्रफला तिक्तशाकस्तु पथि सुन्दरे ।वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः ॥ १५ ॥
4.1.15
अनुष्टुप्
दलाढकोऽरण्यतिले गैरिके नागकेसरे ।कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥ १६ ॥
4.1.16
अनुष्टुप्
वात्यायां खातके पृश्न्यां दासेरकस्तु धीवरे ।दासीपुत्रे च करभे नियामको नियन्तरि ॥ १७ ॥
4.1.17
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
पोतवाहे कर्णधारे निश्चारकः समीरणे ।पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे ॥ १८ ॥
4.1.18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ।चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः ॥ १९ ॥
4.1.19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
चूचुके सीवनसूत्रे पिण्डीतकः फणिज्जके ।तगरे मदनेऽद्रौ च पुण्डरीकं सिताम्बुजे ॥ २० ॥
4.1.20
अनुष्टुप्metre not read in every line
सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ।सहकारे गणधरे राजिलाहौ गजज्वरे ॥ २१ ॥
4.1.21
अनुष्टुप्
कोषकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके ।क्षपणे गन्धहरिणे स्यात्पूर्णानकमानके ॥ २२ ॥
4.1.22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे ।फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ ॥ २३ ॥
4.1.23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
दैत्ये नागे बर्बरीकः केशविन्यासकर्मणि ।शाकभेदे महाकाले वकेरुका बलाकिका ॥ २४ ॥
4.1.24
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 रु (wrong syllable)
वातावर्जितशाखा च भ्रमरको मधुव्रते ।गिरिके चूर्णकेशे च भयानकः सभीषणे ॥ २५ ॥
4.1.25
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
व्याघ्रे राहौ रसे भट्टारको राज्ञि मुनौ सुरे ।भार्याटिको मृगभेदे भार्यया च विनिर्जिते ॥ २६ ॥
4.1.26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके ।मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके ॥ २७ ॥
4.1.27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ब (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च ।माणवकः कुपुंसि स्याद्बालहारभिदोरपि ॥ २८ ॥
4.1.28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि ।रतर्द्धिकं तु दिवसे सुखस्नानेऽष्टमङ्गले ॥ २९ ॥
4.1.29
अनुष्टुप्
राधरङ्कुः सुनासीरे शीकरे जलदोपले ।लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च ॥ ३० ॥
4.1.30
अनुष्टुप्
प्रभोर्भालदर्शिनि च लेखनिकस्तु तत्र यः ।स्वहस्तपरहस्तेन लिखितेषु विलेखयेत् ॥ ३१ ॥
4.1.31
अनुष्टुप्metre not read in every line
लेखहारे वर्त्तरूकः काकनीडे जलावटे ।वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ ३२ ॥
4.1.32
अनुष्टुप्
वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ।संवर्तुले कचे भित्तौ विनायको गणाधिपे ॥ ३३ ॥
4.1.33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
बुद्धे तार्क्ष्ये गुरौ विघ्ने वितुन्नकं तु धान्यके ।झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥ ३४ ॥
4.1.34
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable); pāda 4, syllable 3 ष (wrong syllable)
क्रीडानायकपात्रे च विशेषकस्तु पुण्ड्रके ।विशेषाधायके वापि वृन्दारको मनोरमे ॥ ३५ ॥
4.1.35
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
सुरे श्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः ।वैतानिकः खड्गताले मङ्गलपाठकेऽपि च ॥ ३६ ॥
4.1.36
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः ।वैदेहको वणिजके वैश्यापुत्रे च शूद्रतः ॥ ३७ ॥
4.1.37
अनुष्टुप्
शतानीको मुनौ वृद्धे शालावृको वलीमुखे ।सारमेये श्रृङ्गाले च शिलाटकः शिलाट्टयोः ॥ ३८ ॥
4.1.38
metre not recognised
श्रृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च ।श्रृगालिका शिवायां स्यात्त्रासादपि पलायने ॥ ३९ ॥
4.1.39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
सङ्घाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके ।सन्तानिका क्षीरसारे मर्कटस्य च जालके ॥ ४० ॥
4.1.40
अनुष्टुप्
सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ।सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः ॥ ४१ ॥
4.1.41
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable); pāda 3, syllable 3 ति (wrong syllable)
सैकतिकः क्षपमके संन्यस्ते भ्रान्तिजीविनि ।सोमवल्कः कट्फले स्याद्वलक्षखदिरद्रुमे ॥ ४२ ॥
4.1.42
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
सौगन्धिको गन्धवणिक् सौगन्धिकं तु कत्तृणे ।गन्धोपले पद्मरागे कह्लारे -
4.1.43
metre not recognised