कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरणान्ताः

इति त्रिस्वरढान्ताः ।

अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुसूर्ययोः ॥ १९७ ॥
3.12.197
सन्ध्यारागे बुधे कुष्ठे निःशब्दाव्यक्तरागयोः ।व्याकुले कपिले वर्णे रक्तवर्णेऽपि वाच्यवत् ॥ १९८ ॥
3.12.198
अनुष्टुप्
अरुणा त्रिवृताश्यामामञ्जिष्ठाऽतिविषासु च ।अरणिस्तु भवेदग्निमन्थे निर्मन्थ्यदारुणि ॥ १९९ ॥
3.12.199
अनुष्टुप्
इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः ।इरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि ॥ २०० ॥
3.12.200
अनुष्टुप्
उषणा तु कणायां स्यादुषणं मरिचे मतम् ।एषणी व्रतमार्गानुसारिण्यां च तुलाभिदि ॥ २०१ ॥
3.12.201
अनुष्टुप्
कङ्कणं करभूषायां हस्तसूत्रे च शेखरे ।कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले ॥ २०२ ॥
3.12.202
अनुष्टुप्
करणः शूद्र्यां विट्पुत्रे करणं क्षेत्रगात्रयोः ।गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ ॥ २०३ ॥
3.12.203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्र्यां (wrong syllable)
वर्णानां स्पष्टतादौ च योगिनामसानादिषु ।हृषीके साधकतमे बवादौ च कृतावपि ॥ २०४ ॥
3.12.204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 सा (wrong syllable)
करुणा तु कृपायां स्यात् करुणो रसवृक्षयोः ।करेणुर्गजहस्तिन्योः कर्णिकारतरावपि ॥ २०५ ॥
3.12.205
अनुष्टुप्
कारणं घातने हेतौ करणे कारणा पुनः ।यातना कार्मणं मन्त्रादियोगे कर्मकारके ॥ २०६ ॥
3.12.206
अनुष्टुप्
काकिणी मानदण्डे स्यात्तुरीयांशे पणस्य च ।कृष्णलायां वराटे च कृपाणी कर्त्तरी छुरी ॥ २०७ ॥
3.12.207
अनुष्टुप्
कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः ।कोङ्कणः स्याज्जनपदे कोङ्कणं त्वायुधानतरे ॥ २०९ ॥
3.12.209
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे ।ग्रहोपरागे प्रत्याये ग्रहणी तु रुगन्तरम् ॥ २१० ॥
3.12.210
अनुष्टुप्
ग्रामणीर्भोगिके पत्यौ प्रधाने क्षुरमर्दिनि ।ग्रामिणीः पण्ययोषा स्याद्ग्रामेयीनीलिकाऽपि च ॥ २११ ॥
3.12.211
अनुष्टुप्
गोकर्णोऽश्वतरे सर्पे मृगभेदे गणान्तरे ।अङ्गुष्ठाऽनामिकोन्माने गोकर्णी मूर्विकौषधौ ॥ २१२ ॥
3.12.212
अनुष्टुप्
चरणो बह्वृचादौ स्यात्पादे च मूलगोत्रयोः ।चरमं भ्रमणे भक्षे रासभस्य ध्वनावपि ॥ २१३ ॥
3.12.213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
जारणो रुचके हिङ्गौ जीरके कृष्णजीरके ।तरुणः कुब्जपुष्पे स्यादेरण्डे यूनि नूतने ॥ २१४ ॥
3.12.214
अनुष्टुप्
तरणिस्तरणेऽर्केंऽशौ कुमार्योषधिनौकयोः ।यष्ठावद्धो(?) दक्षिणस्तु परच्छन्दानुवर्तिनि ॥ २१५ ॥
3.12.215
अनुष्टुप्
दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यथ दक्षिणा ।दिक् प्रतिष्ठा यज्ञदानं द्रविणं काञ्चने धने ॥ २१६ ॥
3.12.216
अनुष्टुप्
पराक्रमे बलेऽपि स्यात् द्रुघणः पर्शुवेधसोः ।मुद्गरेऽप्यथ दुर्वर्णं कलधौतकुवर्णयोः ॥ २१७ ॥
3.12.217
अनुष्टुप्
दौर्वीणं मृष्टपर्णे स्याद्धरितालीरसेऽपि च ।धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे ॥ २१८ ॥
3.12.218
अनुष्टुप्
धरणं धारणे मानविशेषे धरणी भुवि ।धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः ॥ २१९ ॥
3.12.219
अनुष्टुप्
सर्पभेदे वृक्षभेदे धर्षिणी त्वभिसारिका ।धर्षणं स्यात्परिभवे धारिणी नाडिकादिभिः ॥ २२० ॥
3.12.220
अनुष्टुप्
धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् ।धिषणस्त्रिदशाचार्ये धिषणा तु मनीषिका ॥ २२१ ॥
3.12.221
अनुष्टुप्
निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ।निर्वाणं मोक्षनिवृत्त्योर्विघाते करिमज्जने ॥ २२२ ॥
3.12.222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
निर्माणं सारनिर्मित्योः कर्मभेदे समज्जसे ।निःश्रेणिरधिरोहिण्यां खर्जूरीपादपेऽपि च ॥ २२३ ॥
3.12.223
अनुष्टुप्
प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे ।प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे ॥ २२४ ॥
3.12.224
अनुष्टुप्
आयत्ते च प्रमाणं तु मर्यादासत्यवादिनोः ।प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः ॥ २२५ ॥
3.12.225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
पत्रोर्णं धौतकौशेयं पत्रोर्णः शोणकद्रुमे ।पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः ॥ २२६ ॥
3.12.226
अनुष्टुप्
प्रवेणिर्वेणिकुथयोः पुराणं प्रत्नशास्त्रयोः ।पुराणः षोजशपणे पुराणं वानतन्तुषु ॥ २२७ ॥
3.12.227
अनुष्टुप्
पूरके पिष्टभेदे च पूरणी शाल्मलिद्रुमे ।प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ ॥ २२८ ॥
3.12.228
अनुष्टुप्
भरणी शोणके भे च भ्रमणी स्यादधीशितुः ।क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे ॥ २२९ ॥
3.12.229
अनुष्टुप्
भीषणो दारुणे गाढे मत्कुणोऽश्मश्रुपूरुषे ।उद्दंशे नालिकेरे च निर्विषाणगजेऽपि च ॥ २३० ॥
3.12.230
अनुष्टुप्
मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ।मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि ॥ २३१ ॥
3.12.231
अनुष्टुप्
यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ।पटोलमूले जघने रमणो रासभे प्रिये ॥ २३२ ॥
3.12.232
अनुष्टुप्
रोषणो रोषणे हेमघर्षे पारद ऊषरे ।रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि ॥ २३३ ॥
3.12.233
अनुष्टुप्
लोहिताकटुरोहिण्योर्लवणो राक्षसे रसे ।अस्थिभेदे लवणा त्विड् लक्षणं नामचिह्नयोः ॥ २३४ ॥
3.12.234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
लक्ष्मणं च लक्षणस्तु सौमित्रौ लक्ष्मणो यथा ।लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् ॥ २३५ ॥
3.12.235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणद्रुमे ।प्राकारे वरणं वृत्यां वारणः स्यान्मतङ्गजे ॥ २३६ ॥
3.12.236
अनुष्टुप्
वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ।वेदे च ब्राह्मणो विप्रो ब्रह्मणी वाडवस्त्रियाम् ॥ २३७ ॥
3.12.237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
स्पृक्कायां फञ्जिकायां च वारुणी पश्चिमा सुरा ।गण्डदूर्वा विषाणं तु श्रृङ्गे कोलेभदन्तयोः ॥ २३८ ॥
3.12.238
अनुष्टुप्
विषाणी मेषश्रृङ्ग्यां स्याद्विपणिः पण्यहट्टयोः ।पण्यवीथ्यां श्रमणस्तु निर्ग्रन्थे निन्द्यजीविनि ॥ २३९ ॥
3.12.239
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable); pāda 3, syllable 6 म (wrong syllable)
श्रणा सुलता मांसी मुण्डीरी च सुदर्शना ।श्रवणो नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ ॥ २४० ॥
3.12.240
metre not recognisednearly अनुष्टुप्
शरणं रक्षणे गेहे वधरक्षकयोरपि ।श्रावणो मासि पाखण्डे दध्याल्यां श्रावणा मता ॥ २४१ ॥
3.12.241
अनुष्टुप्
श्रीपर्णस्त्वग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे ।सङ्कीर्णो निचितेऽशुद्धौ सरणिः श्रेणिमार्गयोः ॥ २४२ ॥
3.12.242
अनुष्टुप्
सारणः स्यादतीसारे दशकन्धरमन्त्रिणि ।सारणी त्वल्पसरिति प्रसारण्योषधावपि ॥ २४३ ॥
3.12.243
अनुष्टुप्
सिङ्खाणं तु घ्राणमलेऽयःकिट्टे काचभाजने ।सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके ॥ २४४ ॥
3.12.244
अनुष्टुप्
सुवर्णं काञ्चने क्र्षे सुवर्णालौ मखान्तरे ।कृष्णागुरुणि बिस्ते च सुपर्णः कृतमालके ॥ २४५ ॥
3.12.245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गरुडे स्वर्णचूडे च सुपर्णा विनताऽब्जिनी ।हरणं यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ ॥ २४६ ॥
3.12.246
अनुष्टुप्
हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति ।सुवर्णप्रतिमायां च हरितावृत्तभेदयोः ॥ २४७ ॥
3.12.247
अनुष्टुप्
हर्षणं श्राद्धदेवे च हर्षके योगरुग्भिदोः ।हरेणुः कुलयोषायां रेणुकायां सतीनके ॥ २४८ ॥
3.12.248
अनुष्टुप्
हिरणं हिरण्यमिव वराटे हेम्नि रेतसि ।
3.12.52