All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरलान्ताः
इति चतुःस्वररान्ताः ।
अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि ॥ २९५ ॥
4.22.295
अक्षमाला त्वक्षसूत्रे वसिष्ठस्य च योषिति ।अङ्गपाली परीरम्भे स्यात्कोट्यामुपमातरि ॥ २९६ ॥
4.22.296
अनुष्टुप्
उलूखलं गुग्गुलुद्रौ सन्धिभेदे च कण्डने ।उलूखली दन्तच्छिद्रमेकाष्ठीलोऽम्बुकौषधे ॥ २९७ ॥
4.22.297
अनुष्टुप्
एकाष्ठीला तु पाठायां भवेत् कलकलः पुनः ।कोलाहले सर्जरसे कन्दरालो जटिद्रुमे ॥ २९८ ॥
4.22.298
अनुष्टुप्
गर्दभान्देऽप्यथ कमण्डलू पर्कटिकुण्डिके ।कूतूहलं शस्तेऽद्भूते खतमालो बलाहके ॥ २९९ ॥
4.22.299
अनुष्टुप्
धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ।गन्धफली प्रियङ्गौ स्यात् चम्पकस्य च कोरके ॥ ३०० ॥
4.22.300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले ॥ ३०१ ॥
4.22.301
अनुष्टुप्
परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने ।पुष्पफलः पुनर्ग्राम्यकर्कट्यां च कपित्थके ॥ ३०३ ॥
4.22.303
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 3 फ (wrong syllable)
पोटगलो नले काशे झषे बहुफलः पुनः ।नीपे बहुफला फल्गौ भस्मतूलं पुनर्हिमे ॥ ३०४ ॥
4.22.304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
ग्रामकूटे पांशुवर्षे भद्रकाल्योषधीभिदि ।गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे ॥ ३०५ ॥
4.22.305
अनुष्टुप्
किम्पाके गणभेदे च मदकलो मदद्विपे ।मदेनाऽव्यक्तवचने महानीलो मणेर्भिदि ॥ ३०६ ॥
4.22.306
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
नागभेदे भृङ्गराजे महाबलो बलीयसि ।वायौ महाबलं सीसे महाबला बलाभिदि ॥ ३०७ ॥
4.22.307
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable); pāda 4, syllable 3 ब (wrong syllable)
मणिमाला स्त्रिया हारे दशनक्षतभिद्यपि ।मुक्ताफलं घनसारे मौक्तिके लवलीफले ॥ ३०८ ॥
4.22.308
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
मृत्युफलो महाकाले मृत्युफली कदल्यपि ।यवफलो मांसिकायां कुटजत्वचिसारयोः ॥ ३०९ ॥
4.22.309
metre not recognised
रजस्वला पुष्पवत्यां रजस्वलस्तु सैरिभे ।वायुफलं तु जलदोपले शक्रशरासने ॥ ३१० ॥
4.22.310
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable); pāda 3, syllable 3 फ (wrong syllable)
वातकेलिः कलालापे षिड्गानां दन्तलेखने ।विचकिलो दमनके मल्यामथ बृहन्नलः ॥ ३११ ॥
4.22.311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable)
महापोटगले पार्थे सदाफल उदुम्बरे ।नालिकेरे स्कन्धफले सौवर्चलं सुवर्चिके ॥ ३१२ ॥
4.22.312
अनुष्टुप्metre not read in every line
शूलरुङ्नाशके चाथ हस्तिमल्लः सुरद्विपे ।विघ्नेशे हलाहलस्तु हयलालोरगे विषे ॥ ३१३ ॥
4.22.313
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)