कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरगान्ताः

इति द्विस्वरखान्ताः ।

अगः स्यान्नगवत्तरौ ॥ २८ ॥
2.3.28
शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः ।उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥ २९ ॥
2.3.29
अनुष्टुप्
अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते ।ज्ञानजङ्गमयोश्चापि खगोऽर्कग्रहपक्षिषु ॥ ३० ॥
2.3.30
अनुष्टुप्
शरे देवेऽपि खड्गोऽसौ खड्गिशृङ्गे च गण्डके ।टङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः ॥ ३१ ॥
2.3.31
अनुष्टुप्
दुर्गं पुनर्दुर्गमे स्याद्दुर्गा तु नीलिकोमयोः ।नागो मतङ्गजे सर्पे पुंनागे नागकेसरे ॥ ३२ ॥
2.3.32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च ।देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ ३३ ॥
2.3.33
अनुष्टुप्
नागं रङ्गे सीसपत्त्रे स्त्रीबन्धे करणान्तरे ।पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ॥ ३४ ॥
2.3.34
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पि (wrong syllable)
पिङ्गं बालके पिशङ्गे पूगः क्रमुकसंघयोः ।फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥ ३५ ॥
2.3.35
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)
भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु ।रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥ ३६ ॥
2.3.36
अनुष्टुप्
भंगस्तरंगे भेदे च रुग्विशेषे पराजये ।कौटिल्ये भयविच्छित्योर्भंगा शणे भंगिः पुनः ॥ ३७ ॥
2.3.37
अनुष्टुप्metre not read in every line
भक्तिवीच्योर्भागो रुपार्द्धके भाग्यैकदेशयोः ।भृंगं त्वक्पत्रं भृंगास्तु खिड्गधूम्याटमार्कवाः ॥ ३८ ॥
2.3.38
metre not recognised
षट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः ।शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥ ३९ ॥
2.3.39
अनुष्टुप्
धनेऽहिकायफणयोः पालनाऽभ्यवहारयोः ।मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥ ४० ॥
2.3.40
अनुष्टुप्
मृगः कुरंगे याच्ञायां मृगयायां गजान्तरे ।पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे ॥ ४१ ॥
2.3.41
अनुष्टुप्
युगं हस्तचतुष्के स्याद्रथाद्यंगे कृतादिके ।वृद्धिनामौषधे युग्मे योगो विश्रब्धघातिनि ॥ ४२ ॥
2.3.42
अनुष्टुप्
अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु ।वपुः स्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ ४३ ॥
2.3.43
अनुष्टुप्
विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्भुवोःरागे रङ्गं तु त्रपुणि रागः स्याल्लोहितादिषु ॥ ४४ ॥
2.3.44
अनुष्टुप्
गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे ।लङ्गः संगे च पिङ्गे च लिङ्गं मेहनचिह्नयोः ॥ ४५ ॥
2.3.45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शा (wrong syllable)
शिवमूर्तावनुमाने सांख्योक्तविकृतावपि ।वङ्गः कार्पासे वृन्ताके वङ्गा जनपादान्तरे ॥ ४६ ॥
2.3.46
metre not recognised
वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः ।व्यङ्गो भेके हीनाङ्गे च वेगो रयप्रवाहयोः ॥ ४७ ॥
2.3.47
अनुष्टुप्metre not read in every line
रेतः किंपाकयोश्चापि शार्ङ्गं विष्णुधनुर्द्धनुः ।शुङ्ग्याम्राते वटे प्लक्षे शृङ्गं चिह्नविषाणयोः ॥ ४८ ॥
2.3.48
अनुष्टुप्
क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु ।शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः ॥ ४९ ॥
2.3.49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
विषायामृषभौषध्यां सर्गस्त्यागस्वभावयोः ।उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥ ५० ॥
2.3.50
अनुष्टुप्