कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरणान्ताः

इति चतुःस्वरढान्ताः ।

अङ्गारिणी हसन्त्यां स्याद्भास्करत्यक्तदिश्यपि ॥ ७६ ॥
4.10.76
आथर्वणोऽथर्वविदि ब्रह्मणे च पुरोधसि ।आरोहणं समारोहे सोपाने च प्ररोहणे ॥ ७७ ॥
4.10.77
अनुष्टुप्
आतर्पणं तु सौहित्ये विद्यादालिम्पनेऽपि च ।उत्क्षेपणा तु व्यजने धान्यमर्दनवस्तुनि ॥ ७८ ॥
4.10.78
अनुष्टुप्
उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये ।वान्तान्ने च कामगुणो विषयाभोगयो रतौ ॥ ७९ ॥
4.10.79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
कार्षापणः कार्षिके स्यात् पणे षोडशकेऽपि च ।चीर्णपर्णस्तु निम्बे स्यात् खर्जूरीभूरुहेऽपि च ॥ ८० ॥
4.10.80
अनुष्टुप्
चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि ।जुहुवाणोऽध्वर्युवह्न्योस्तण्डुरीणस्तु बर्बरे ॥ ८१ ॥
4.10.81
अनुष्टुप्
तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिह्लके ।श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च ॥ ८२ ॥
4.10.82
अनुष्टुप्
रोहिण्यां च देवमणिर्विष्णुवक्षोमणौ हरौ ।अश्वस्य कण्ठावर्त्ते च नारायणस्तु केशवे ॥ ८३ ॥
4.10.83
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
नारायणी शतावर्युमा श्रीर्निःसरणं मृतौ ।उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च ॥ ८४ ॥
4.10.84
अनुष्टुप्
निस्तरणं तु निस्तारे तरणोपाययोरपि ।निरूपणं विचारे स्यादालोके च निदर्शने ॥ ८५ ॥
4.10.85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
निगरणं भोजने स्यात् निगरणः पुनर्गले ।प्रवारणं काभ्यदाने निषेधेऽथ परीरणः ॥ ८६ ॥
4.10.86
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 2, syllable 3 र (wrong syllable)
दण्डे कूर्मे पट्टशाटे पर्परीणं तचु पर्वणि ।पर्णवृन्तरसे पर्णशिरायां द्यूतकम्बले ॥ ८७ ॥
4.10.87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परायणं स्यादभीष्टे तत्पराश्रययोरपि ।परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः ॥ ८८ ॥
4.10.88
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्ध (wrong syllable)
कार्त्स्न्ये पारगतौ सङ्गे पीलुपर्ण्यौषधीभिदि ।मूर्वायां बिम्बिकायां च पुष्करिणी जलाश्रये ॥ ८९ ॥
4.10.89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ।दर्दुराम्रे रक्तरेणुः पलाशकलिकोद्गमे ॥ ९० ॥
4.10.90
अनुष्टुप्
सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ।रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे ॥ ९१ ॥
4.10.91
अनुष्टुप्
अङ्कोटे वारबाणस्तु कूर्पासे कवचेऽपि च ।विदारणं भेदने स्यात्सम्परायविडम्बने ॥ ९२ ॥
4.10.92
अनुष्टुप्
वैतरणी प्रेतनद्यां जनन्याममपि रक्षसाम् ।शरवाणिः शरमुखे पदातौ शरजीविनि ॥ ९३ ॥
4.10.93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ।स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके ॥ ९४ ॥
4.10.94
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
पान्थे वायौ संसरणं त्वसम्बाधचमूगतौ ।संसारे समरारम्भे नगरस्योपनिर्गमे ॥ ९५ ॥
4.10.95
अनुष्टुप्
हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ।
4.10.21