All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरशान्ताः
इति त्रिस्वरवान्ताः ।
अथादर्शष्टीकायां प्रतिपुस्तके ।दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि ॥ ७५४ ॥
3.26.754
अनुष्टुप्metre not read in every line
उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ।कर्कशो निर्दये क्रूरे कम्पिल्लककृपाणयोः ॥ ७५५ ॥
3.26.755
अनुष्टुप्
कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनोः ।कुलिशो मत्स्यभिद्वज्रो गिरीशो वाक्पतौ हरे ॥ ७५७ ॥
3.26.757
अनुष्टुप्
अद्रिराजेऽथ तुङ्गीशः शशाङ्गे शशिशेखरे ।दुःस्पर्शस्तु स्वरस्पर्शे कण्टकार्यां यवासके ॥ ७५८ ॥
3.26.758
अनुष्टुप्
निस्त्रिंशो निर्घृणे खड्गे निर्देशः कथनाज्ञयोः ।निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च ॥ ७५९ ॥
3.26.759
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
निवेशः सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः ।निदेशः स्यादुपकण्ठशासने परिभाषणे ॥ ७६० ॥
3.26.760
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः ।उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके ॥ ७६१ ॥
3.26.761
अनुष्टुप्
भित्तौ मानविशेषे च पलाशः किंशुकः शटी ।हरिद्वर्णे राक्षसे च पलाशं छेदने स्मृतम् ॥ ७६२ ॥
3.26.762
अनुष्टुप्
पक्षीशो गरुडे विष्णौ पिङ्गाशं जात्यकाञ्जने ।पिङ्गाशौ मत्स्यपल्लीशौ पिङ्गाशी नीलिका मता ॥ ७६३ ॥
3.26.763
अनुष्टुप्
बालिशस्तु शिशौ मूर्खे भूकेशः शैवले नटे ।भूकेशी वल्वजेषु स्यात् लोमशो लोमसंयुते ॥ ७६४ ॥
3.26.764
अनुष्टुप्
काशीशेऽतिवलाशूकशिम्बीमर्कटिकासु च ।विवशः स्यादवश्यात्मानिष्टदुष्टमतिस्तथा ॥ ७६६ ॥
3.26.766
अनुष्टुप्
विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते ।विपाशा तु सरिद्भेदे सदेशोऽन्तिकदेशयोः ॥ ७६७ ॥
3.26.767
अनुष्टुप्
सदृशं तूचिते तुल्ये सङ्कोचे सदृशेऽन्तिके ।संवेशः शयने पीठे सुखाशस्तु प्रचेतसि ॥ ७६८ ॥
3.26.768
अनुष्टुप्
शुभासे राजतिनिशे हताशो निष्कृपे खले ।नष्टवाञ्छे हुताशस्तु पावके बहुभोजिनि ॥ ७६९ ॥
3.26.769
अनुष्टुप्