All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरलान्ताः
इति त्रिस्वरान्ताः ।
स्यादर्गलं तु दण्डोर्मिपारिघेष्वनलोऽनिले ।वसुदेवे वसौ वह्नावरालः समदद्विपे ॥ ६५८ ॥
3.24.658
अनुष्टुप्
वक्रे सर्जरसे चाप्यऽवेलस्तु स्यादुपद्रवे ।अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ ६५९ ॥
3.24.659
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
अचला भुव्यज्जलिस्तु कुडवे करसम्पुटे ।अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ॥ ६६० ॥
3.24.660
अनुष्टुप्
अमला कमलायां स्यादमलं विशदेऽभ्रके ।आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः ॥ ६६१ ॥
3.24.661
अनुष्टुप्
इल्वलास्ताकारभेदेऽप्युपलो ग्रावरत्नयोः ।उपला तु शर्करायामुत्पलं कुष्टभूरुहे ॥ ६६२ ॥
3.24.662
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 तु (wrong syllable)
इन्दीवरे मांसशून्येऽप्युज्वलस्तु विकासिनि ।श्रृङ्गारे विशदे दीप्तेऽप्युत्तालस्त्वरिते कपौ ॥ ६६३ ॥
3.24.663
अनुष्टुप्
श्रेष्ठोत्कटकरालेषूत्फुल्लं स्त्रीकरणान्तरे ।विकस्वरोत्तालयोश्च कमलं क्लोम्नि भेषजे ॥ ६६४ ॥
3.24.664
अनुष्टुप्
पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ।कमला श्रीवरनार्योः कपिलो वह्निपङ्गयोः ॥ ६६५ ॥
3.24.665
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
कपालं कुष्ठरुग्भेदे घटादिशकले गणे ।शिरोस्थनि कन्दले तु नवाङ्कुरे कलध्वनौ ॥ ६६७ ॥
3.24.667
अनुष्टुप्metre not read in every line
उपरागे मृगभेदे कपाले कदलीद्रुमे ।करालो रौद्रतुङ्गोरुधूणतैलेषु दन्तुरे ॥ ६६८ ॥
3.24.668
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
करालं तु कुठेरे स्यात् कम्बलः कृमिसास्नयोः ।नागप्रभेदे प्रावारवैकक्ष्ये कम्बलं जले ॥ ६६९ ॥
3.24.669
अनुष्टुप्
कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे ।रम्भायां वैजयन्त्यां च कामलः कामिरोगयोः ॥ ६७० ॥
3.24.670
अनुष्टुप्
मरुदेशे वसन्ते च काकोलो मौष्कुलौ विषे ।कुलाले काहलं तु स्याद् भृशे सन्त्यक्तवाचि च ॥ ६७१ ॥
3.24.671
अनुष्टुप्
शुष्के च वाद्यभेदे च काहली तरुणस्त्रियाम् ।किट्टालस्तु लोहगूथे ताम्रस्य कलशेऽपि च ॥ ६७२ ॥
3.24.672
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः ।पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले ॥ ६७३ ॥
3.24.673
अनुष्टुप्
मुक्ताफलोत्पलयोश्च कुम्बिलो मीनमूषयोः ।श्लोकच्छायाहरे श्याले कुद्दालो भूमिदारुणे ॥ ६७४ ॥
3.24.674
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
युगपत्रेऽथ कुटिलं भङ्गुरे कुटिला नदी ।कुण्डलं वलये पाशे ताटङ्के कुण्डली पुनः ॥ ६७५ ॥
3.24.675
अनुष्टुप्
काञ्चनादौ गूडूच्यां च कुन्तलो यवकेशयोः ।कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले ॥ ६७६ ॥
3.24.676
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गू (wrong syllable)
शङ्कुसंयुक्तगर्ते च कुलालो घूकपक्षिणि ।कुक्कुभे कुम्भकारे च कुचेलः स्यात्कुवाससि ॥ ६७७ ॥
3.24.677
अनुष्टुप्
कुचेला स्याद्विद्धकर्ण्यां केवलं त्वेककृत्स्नयोः ।निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि ॥ ६७८ ॥
3.24.678
अनुष्टुप्
कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः ॥ ६७९ ॥
3.24.679
अनुष्टुप्
मुसले लाङ्गले चापि गोपालो नृपगोपयोः ।स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः ॥ ६८१ ॥
3.24.681
अनुष्टुप्
नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः ।चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले ॥ ६८२ ॥
3.24.682
अनुष्टुप्
क्षणिके चिकुरे शीघ्रे पारदे प्रस्तरान्तरे ।मीनेऽपि चपला तु स्यात्पिप्पल्यां विद्युति श्रियाम् ॥ ६८३ ॥
3.24.683
अनुष्टुप्
पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयोः ।चूडालश्चूडया युक्ते चूडालापि च चक्रला ॥ ६८४ ॥
3.24.684
अनुष्टुप्
छगलश्छागे छगली वृद्धदारकभेषजे ।छगलं तु नीलवस्त्रे जगलो मदनद्रुमे ॥ ६८५ ॥
3.24.685
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गे (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
मेदके कितवे पिष्टमद्येऽथ जटिलो जटी ।जटिला तु मांसिकायां जम्बूलः क्रकचच्छदे ॥ ६८६ ॥
3.24.686
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च ।जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः ॥ ६८७ ॥
3.24.687
अनुष्टुप्
जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले ।जाङ्गली तु शूकशिम्ब्यां जाङ्गुलं जालिनीफले ॥ ६८८ ॥
3.24.688
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
जाङ्गुली विषविद्यायां तरलो भास्वरे चले ।हारमध्यमणौ पिङ्गे तरला मद्यमुष्णिका ॥ ६८९ ॥
3.24.689
अनुष्टुप्
तमालो वरुणे पुण्ड्रेऽसौ तापिच्छेऽथ तण्डुला ।विडङ्गे धान्यसारे च ताम्बूलं क्रमुके फले ॥ ६९० ॥
3.24.690
अनुष्टुप्
ताम्बूली नागवल्यां स्यात्तुमुलं रणसङ्कुले ।तुमुलो विभीतकद्रौ तैतिलं करणान्तरे ॥ ६९१ ॥
3.24.691
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि ।क्षौमवस्त्रेऽथ धवलो महोक्षे सुन्दरे सिते ॥ ६९२ ॥
3.24.692
अनुष्टुप्
धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः ।नकुली कुक्कुटीमांस्योर्नाभीलं तूत्तमस्त्रियाः ॥ ६९३ ॥
3.24.693
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
वंक्षणे नाभिगर्भाण्डे नाकुली चव्यरास्नयोः ।कुक्कुटीकन्दे निचुलस्त्विज्जलद्रौ निचोलके ॥ ६९४ ॥
3.24.694
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्दे (wrong syllable)
निस्तलं चले वृत्ते स्यान्निर्मले विमलेऽभ्रके ।निर्माल्ये च निष्कलस्तु नष्टबीजे कलोज्झिते ॥ ६९५ ॥
3.24.695
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ले (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
नैपाली मनःशिला स्यात्सुवरा नवमाल्यपि ।पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः ॥ ६९६ ॥
3.24.696
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे ।प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ ६९७ ॥
3.24.697
अनुष्टुप्
पाञ्चाली पुत्रिकागीत्योः पललं पङ्कमांसयोः ।तिलचूर्णे पललस्तु राक्षसे पाचलोऽनले ॥ ६९९ ॥
3.24.699
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
रसातले पाटलं तु कुसुमश्वेतरक्तयोः ।पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे ॥ ७०१ ॥
3.24.701
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दा (wrong syllable)
पांशुलो हरखट्वाङ्गे पुंश्चले पांशुला भूवि ।पाटली मृत्तिकापात्रे नारीवागुरयोरपि ॥ ७०२ ॥
3.24.702
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 भू (wrong syllable)
पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः ।निरंसुले वृक्षपक्षिभेदयोः पिप्पली कणा ॥ ७०३ ॥
3.24.703
अनुष्टुप्
पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपरिपार्श्वके ।कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् ॥ ७०४ ॥
3.24.704
अनुष्टुप्
कारायिकायां वेश्यायां नाडीवेदेऽथ पित्तलम् ।पित्तवत्यारकूटे च पित्तला तोयपिप्पली ॥ ७०५ ॥
3.24.705
अनुष्टुप्
पिचुलो निचुले तोयवायसे कामुकद्रुमे ।पिञ्जले स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ ७०६ ॥
3.24.706
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
विजिले पिच्छिला पोतकिकायां सरिदन्तरे ।शाल्मलौ शिंशपायां च पिण्डिलो गणनागदे ॥ ७०७ ॥
3.24.707
अनुष्टुप्
स्थूलजङ्घे पुष्कलस्तु पूर्णे श्रेष्ठेऽथ पुद्गलः ।काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ ७०८ ॥
3.24.708
अनुष्टुप्
पेशलः कुशले रम्ये फेनिलोऽरिष्टपादपे ।फेनिलं मदनफले बदरे फेनवत्यपि ॥ ७०९ ॥
3.24.709
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
बहुलं भूरिवियतोर्बहुलः पावके शितौ ।कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ ७१० ॥
3.24.710
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
बहुलास्तु कृत्तिकासु बिडालो वृषदंशके ।पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदशयोः ॥ ७११ ॥
3.24.711
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable); pāda 4, syllable 6 द (wrong syllable)
भुजङ्गभेदे परिधौ शुनि द्वादशराजके ।सङ्घाते कुष्ठभेदे च मञ्जुलं तु जलाञ्जले ॥ ७१२ ॥
3.24.712
अनुष्टुप्
रम्ये कुञ्जे मञ्जुलस्तु दात्यूहे मङ्गलं पुनः ।कल्याणे मङ्गलो भौमे मङ्गला श्वेतदूर्विका ॥ ७१३ ॥
3.24.713
अनुष्टुप्
महिलाऽङ्गनायां गुण्ड्रायां मातुलो मदनद्रुमे ।धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ ७१४ ॥
3.24.714
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बन्दिचौरे रुजि ग्राहे मुसलं स्यादयोग्रके ।मुशली तालमूल्याखुपर्णिका गृहगोधिका ॥ ७१५ ॥
3.24.715
अनुष्टुप्
मेखलाऽद्रिनितम्बे स्याद्रसनाखड्गबन्धोः ।रसाल इक्षौ चूते च रसालं चोलसिह्लयोः ॥ ७१६ ॥
3.24.716
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रसाला दूर्वाविदार्योर्जिह्वामार्जितयोरपि ।रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ॥ ७१७ ॥
3.24.717
अनुष्टुप्
लाङ्गलं तालहलयोः पुष्पभिद्गृहदारुणोः ।लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि ॥ ७१८ ॥
3.24.718
अनुष्टुप्
श्रृङ्खलाधार्ये वञ्जुलस्त्वशोके तिनिशद्रुमे ।वानीरे चाथ वण्टालः शूरयुन्नौखनित्रयोः ॥ ७१९ ॥
3.24.719
अनुष्टुप्metre not read in every line
विपुलाऽऽर्याभिदि क्षोण्यां विमलोऽर्हति निर्मले ।वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ ७२१ ॥
3.24.721
अनुष्टुप्
वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे ।पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि ॥ ७२२ ॥
3.24.722
अनुष्टुप्
श्यामलः पिप्पले श्यामे शार्दूलो राक्षसान्तरे ।व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ ७२३ ॥
3.24.723
अनुष्टुप्
शाल्मलिः पादपे द्वीपे शीतलः शीतलेऽर्हति ।श्रीखण्डे पुष्पकासीसासनपर्ण्योः शिलोद्भवे ॥ ७२४ ॥
3.24.724
अनुष्टुप्
श्रृगालो दानवे फेरौ शृगाली स्यादुपप्लवे ।श्रृङ्खलं पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने ॥ ७२५ ॥
3.24.725
अनुष्टुप्
शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि ।षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् ॥ ७२६ ॥
3.24.726
अनुष्टुप्
सङ्कुलोऽस्पष्टवचने व्याप्ते च सरलस्त्वृजौ ।उदारे पूतिकाष्ठे च सप्तला नवमालिका ॥ ७२७ ॥
3.24.727
अनुष्टुप्
सातला पाटला गुञ्जा सन्धिलौकःसुरुङ्गयोः ।नद्यां सिध्मलः किलासी सिध्मला मत्सचूर्णके ॥ ७२८ ॥
3.24.728
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ध्म (wrong syllable)
सुतलोऽट्टालिकाबन्धे पातालभुवनान्तरे ।सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ ७२९ ॥
3.24.729
अनुष्टुप्
कलादे सरटे ग्रावभिदि-
3.24.73