कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरडान्ताः

इति त्रिस्वरठान्ताः ।

कारण्डो मधुकोशेऽसौ कारण्डवे दलाढके ।कूष्माण्डौ गणकर्कारू कूष्माण्डी त्वम्बिकौषधी ॥ १८२ ॥
3.10.182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
कोदण्डं कार्मुके देशभेदभ्रूलतयोरपि ।गारुडं स्यान्मरकते विषशास्त्रे विषोद्भवे ॥ १८३ ॥
3.10.183
अनुष्टुप्
तरण्डो बडिशीसूत्रबद्धस्तुनि भेलके ।तित्तिडो दैत्यभेदे स्याद्यमदासेऽथ तित्तडी ॥ १८४ ॥
3.10.184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कालदासे पादपे च तिन्तिडी चुक्रचिञ्चयोः ।द्राविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्खयोः ॥ १८५ ॥
3.10.185
अनुष्टुप्
निर्गुण्डी नीलशेफाली सिन्दुवारोऽब्जकन्दकः ।प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ॥ १८६ ॥
3.10.186
अनुष्टुप्
प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ।पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च ॥ १८७ ॥
3.10.187
अनुष्टुप्
पूत्यण्डः स्याद्गन्धमृगे सर्पभिद्गन्धकीटयोः ।भेरुण्डौ भीषणखगौ भेरुण्डा देवताभिदि ॥ १८८ ॥
3.10.188
अनुष्टुप्
मारुण्डस्तु भुजङ्गाण्डे मार्गे गोमयमण्डले ।मार्तण्डस्त्वरणौ क्रोडे वरण्डो वदनव्यथा ॥ १८९ ॥
3.10.189
अनुष्टुप्
अन्तरावेदिसङ्घौ च वरण्डा शारिका छुरी ।वर्त्तिर्वारुण्डस्तु कर्णदृङ्मले सेकभाजने ॥ १९० ॥
3.10.190
अनुष्टुप्
गणिराजद्वारपिण्ड्योर्वारुण्डः खग उद्रिणि (?) ।वितण्डा वातभेदे स्यात्कच्चीशाके शिलाह्वये ॥ १९१ ॥
3.10.191
अनुष्टुप्
करवीर्यामपि प्रोक्तः शिखण्डो बर्हिचूडयोः ।सरण्डः स्यात्कृकलासे भूषणान्तरधूर्त्तयोः ॥ १९२ ॥
3.10.192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
सपिण्डस्तनये प्रोक्तो दायादे सदृशेऽपि च ।
3.10.12