कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वररान्ताः

इति त्रिस्वरयान्ताः ।

अमरः सुरे ।स्नुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती ॥ ५४६ ॥
3.23.546
अनुष्टुप्metre not read in every line
स्थूणा दुर्वा गुडूची वाऽन्तरं रन्ध्रावकाशयोः ।मध्ये विनार्थे तादर्थ्ये विशेषेऽवसरेऽवधौ ॥ ५४७ ॥
3.23.547
अनुष्टुप्
आत्मीयात्मपरिधानान्तर्धिबाह्येष्वथाऽवरम् ।चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः ॥ ५४८ ॥
3.23.548
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable); pāda 3, syllable 4 व (wrong syllable)
अक्षरं स्यादपामार्गे परमब्रह्मवर्णयोः ।गगने धर्मतपसोरध्वरे मूलकारमे ॥ ५४९ ॥
3.23.549
अनुष्टुप्
अधरोऽनूर्ध्वहीनोष्ठे अध्वरः सावधानके ।वसुभेदे क्रतौ चाप्यथाऽम्बरं व्योमवस्त्रयोः ॥ ५५० ॥
3.23.550
अनुष्टुप्
कार्पासे सुरभिद्रव्येऽररं छदकपटयोः ।अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ ५५१ ॥
3.23.551
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
अजिरं दर्दुरे कार्ये विषये प्राङ्गणेऽनिले ।अशिरोऽर्के राक्षसेऽग्नावङ्गारोऽलातभौमयोः ॥ ५५२ ॥
3.23.552
अनुष्टुप्
अण्डीरः सक्तनरयोरसुरः सूर्यदैत्ययोः ।असुरा रजनीराश्योरगुरुर्जोङ्गके लघौ ॥ ५५३ ॥
3.23.553
अनुष्टुप्
शिंशपायामवीरा तु नारी पतिसुतोज्झिता ।रजसा संयुताऽप्युक्ताहार आहरणेऽशने ॥ ५५४ ॥
3.23.554
अनुष्टुप्
आसारो वेगवद्वर्षे सुहृद्बलप्रसारयोः ।आकार इङ्गिताकृत्योराधारो जलधारणे ॥ ५५५ ॥
3.23.555
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्ब (wrong syllable)
आलवालेऽधिकरणेऽप्याकरो निकरे खनौ ।इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि ॥ ५५६ ॥
3.23.556
अनुष्टुप्
पथिके दुर्विधे नीचे स्यादित्वर्यभिसारिका ।ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराऽद्रिजा ॥ ५५७ ॥
3.23.557
अनुष्टुप्
उदरं तुन्दरणयोरुत्तरं प्रवरोर्ध्वयोः ।उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे ॥ ५५८ ॥
3.23.558
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)
उत्तरा दिगुदीच्यां स्यात्स्नुषायामर्जुनस्य च ।उद्धारः स्यादृणोद्धृत्योरुदारो दक्षिणो महान् ॥ ५५९ ॥
3.23.559
अनुष्टुप्
दातोर्वरा तु भूमात्रे सर्वसस्याढ्यभुव्यपि ।ऋक्षरं वारिधारायामृक्षरः पुन ऋत्विजि ॥ ५६० ॥
3.23.560
अनुष्टुप्
एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने ।उशीरजे चामरे च दण्डे च कररः खगे ॥ ५६१ ॥
3.23.561
अनुष्टुप्
करीरे क्रकचे दीने कर्बुरं काञ्चने जले ।कर्बुरो राक्षसे पापे शबले कन्दरोऽङ्कुशे ॥ ५६२ ॥
3.23.562
अनुष्टुप्
विवरे च गुहायां च कर्करो मुकुरे दृढे ।कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ५६३ ॥
3.23.563
अनुष्टुप्
कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः ।कच्चरं कुत्सिते तक्रे कडारो दासपिङ्गयोः ॥ ५६४ ॥
3.23.564
अनुष्टुप्
कञ्जारः कुञ्जरे सूर्ये जठरे द्रुहिणे मुनौ ।करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः ॥ ५६५ ॥
3.23.565
अनुष्टुप्
कलत्रं श्रोणौ भार्यायां दुर्गस्थाने च भूभूजाम् ।कटित्रं तु कटीवस्त्रे रशनाचर्मभेदयोः ॥ ५६६ ॥
3.23.566
अनुष्टुप्metre not read in every line
कच्छुरः पुंश्चले पामासहिते कच्छुरा शटी ।दुस्पर्शा शूकशिम्बी च कबरं लवणाम्लयोः ॥ ५६७ ॥
3.23.567
अनुष्टुप्
कबरी केशविन्यासशाकयोः कन्धरोऽम्बुदे ।कन्धरा तु शिरोधौ स्यात् कसेरुः पृष्ठकीकसे ॥ ५६८ ॥
3.23.568
अनुष्टुप्
तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् ।वेश्येभीकर्णकारेषु कटप्रूरक्षदेवने ॥ ५६९ ॥
3.23.569
अनुष्टुप्
विद्याधरेऽस्रपे रुद्रे कर्चूरं शटितालयोः ।कठोरौ पूर्णकठिनौ कान्तारं दुर्गवर्त्मनि ॥ ५७० ॥
3.23.570
अनुष्टुप्
महारण्योपसर्गाढ्योः काननेक्षुविशेषयोः ।काश्मीरं पुष्करमूले टङ्ककुङ्कुमयोरपि ॥ ५७१ ॥
3.23.571
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ।किर्मीरः शबले दैत्ये किशोरो हयशावके ॥ ५७२ ॥
3.23.572
अनुष्टुप्
सूर्ये यून्यथ किंशारुर्धान्यशूके शरेऽपि च ।कुहरं गह्वरे छिद्रे कुक्कुरं ग्रन्थिपर्णके ॥ ५७३ ॥
3.23.573
अनुष्टुप्
कुक्कुरः श्वा कुबेरस्तु धनदे नन्दिपादपे ।कूर्परौ जानुकफोणी कुमारोऽश्वानुवारके ॥ ५७४ ॥
3.23.574
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
युवराजे शिशौ स्कन्दे शुके वरुणपादपे ।कुमारं जात्यकनके कुमारी त्वपराजिता ॥ ५७५ ॥
3.23.575
अनुष्टुप्
नदीभिद्रामतरणी कन्यका नवमाल्युमा ।जम्बूद्वीपविभागश्च कुठारं केवले रते ॥ ५७६ ॥
3.23.576
अनुष्टुप्
कुञ्जरोऽनेकपे कोशे कुञ्जरा धातकीद्रुमे ।पाटलायां कुठारुर्द्रुकीशयोः कूवरः पुनः ॥ ५७७ ॥
3.23.577
अनुष्टुप्
कुब्जे युगन्धरे रम्ये केसरो नागकेसरे ।तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे ॥ ५७८ ॥
3.23.578
अनुष्टुप्
पुन्नागवृक्षे किञ्जल्के स्यात् केसरं तु हिङ्गुनि ।केदारः क्षेत्रभिद्यालवाले शङ्करशैलयोः ॥ ५७९ ॥
3.23.579
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
केनारः कुम्भिनरके शिरःकपालसन्धिषु ।कैटिरः शक्रगोपे स्यान्कुले पाकशासने ॥ ५८० ॥
3.23.580
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।खर्परं तस्करे भिक्षापात्रे धूर्त्तकपालयोः ॥ ५८१ ॥
3.23.581
अनुष्टुप्
खपुरो मुस्तके पूगेऽलसके खपुरं घटे ।खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः ॥ ५८२ ॥
3.23.582
अनुष्टुप्
खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षताक्षरे ।खदिरी शाके खदिरो दन्तधावनचन्द्रयोः ॥ ५८३ ॥
3.23.583
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके ।खिखीरावद्बहुत्वे च गह्वरं बिलदम्भयोः ॥ ५८४ ॥
3.23.584
अनुष्टुप्
कुञ्जेऽथ गर्ग्रो मीने स्याद्गर्गरी तु मन्धनी ।गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे ॥ ५८५ ॥
3.23.585
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 षु (wrong syllable)
गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ।मुस्तके द्वारि पूर्द्वारे घर्घरस्तु नदान्तरे ॥ ५८६ ॥
3.23.586
अनुष्टुप्
चलद्वारिध्वनौ घूके चन्दिरश्चन्द्रहस्तिनोः ।चत्वरं स्यात्पथां श्लेषे स्थण्डिलाजिरयोरपि ॥ ५८७ ॥
3.23.587
अनुष्टुप्
चङ्कुरः स्यन्दने वृक्षे चतुरो नेत्रगोचरे ।चाटुकारे बुधे चक्रगण्डे चातुरको यथा ॥ ५८८ ॥
3.23.588
अनुष्टुप्
चमरश्चामरे दैत्ये चमरी तु मृगान्तरे ।चिकुरोऽहौ गृहबभ्रौ केशे चञ्चलशैलयोः ॥ ५८९ ॥
3.23.589
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
पक्षिवृक्षभिदोश्चापि छिदिरोऽग्नौ परश्वधे ।करवाले च रज्जौ च छित्वरो दैत्यधूर्त्तयोः ॥ ५९० ॥
3.23.590
अनुष्टुप्
छित्वरं छेदने द्रव्ये जठरः कुक्षिवृद्धयोः ।कठिने च जर्जरं तु वासवध्वजजीर्णयोः ॥ ५९१ ॥
3.23.591
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
जम्बीरः प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ।जलेन्द्रो जम्भकेऽम्भोधौ वरुणेऽप्यथ झर्झरः ॥ ५९२ ॥
3.23.592
अनुष्टुप्
वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी ।वाद्यभेदे केशचक्रे टङ्कारो ज्यारवेऽद्भुते ॥ ५९३ ॥
3.23.593
अनुष्टुप्
प्रसिद्धौ चाथ टगरष्टङ्कणे केकराक्षके ।टट्टरी त्वनृताख्यानलम्पापटहवाद्ययोः ॥ ५९४ ॥
3.23.594
अनुष्टुप्
तमिस्रं तिमिरे कोपे तमिस्रा दर्शयामिनी ।तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः ॥ ५९५ ॥
3.23.595
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मि (wrong syllable)
तित्तिरिः पक्षिणि मुनौ तुषारो हिमदेशयोः ।शीकरे हिमभेदे च तुम्बुरी धन्याकं शुनी ॥ ५९६ ॥
3.23.596
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्या (wrong syllable)
तूवरोऽश्मश्रुपुरुषेऽप्रौढाश्रृङ्गानडुह्यपि ।दहरो मूषिको ह्यल्पो भ्राता डिम्होऽथ दन्तुरः ॥ ५९७ ॥
3.23.597
अनुष्टुप्म्ह (ह्म?): डिम्होऽथ
उन्नतदन्ते विषमे दर्दुरो भेकमेघयोः ।वाद्यभेदे शैलभेदे दर्दुरं ग्रामजालके ॥ ५९८ ॥
3.23.598
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 न्न (wrong syllable)
दर्दुरोमा दर्दरः स्यादीषद्भग्ने गिरावपि ।दण्डारो वहने मत्तवारणे शरयन्त्रके ॥ ५९९ ॥
3.23.599
अनुष्टुप्
कुम्भकारस्य यंत्रे च द्वापरं संशये युगे ।दासेर उष्ट्रे चेटे च दुर्द्धरस्त्वृषभौषधौ ॥ ६०० ॥
3.23.600
अनुष्टुप्
दुःखधार्य्ये धूसरस्तु रासभे स्तोकपाण्डुरे ।नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽथ नागरम् ॥ ६०१ ॥
3.23.601
अनुष्टुप्
शुण्ठीमुस्तकपौरेषु निर्जरस्त्वसुरे सुरे ।निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि ॥ ६०२ ॥
3.23.602
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
निर्झरोऽर्काश्वे तुषाग्नौ निकरः सारसङ्घयोः ।न्यायदातव्यवित्ते च निर्वरं तु गतत्रपे ॥ ६०३ ॥
3.23.603
अनुष्टुप्
कठिने निर्भये सारे निकारस्तु पराभवे ।धान्योत्क्षेपे नीवरस्तु वास्तव्येऽपि वणिज्यपि ॥ ६०४ ॥
3.23.604
अनुष्टुप्
प्रवरं सन्ततौ गोत्रे श्रेष्ठे च प्रखरः पुनः ।वेसरे हयसन्नाहे कुक्कुरेऽतिभृशं खरे ॥ ६०५ ॥
3.23.605
अनुष्टुप्
प्रकरः कीर्णपुष्पादौ संहतौ प्रकरं पुनः ।जोङ्गके प्रकरी त्वर्थप्रकृतौ चत्वराऽवनौ ॥ ६०६ ॥
3.23.606
अनुष्टुप्
प्रस्तरः प्रस्तारे ग्राव्णि मणौ च प्रदरः शरे ।भङ्गे रोगे प्रसरस्तु सङ्गरे प्रणये जवे ॥ ६०७ ॥
3.23.607
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्ता (wrong syllable); pāda 3, syllable 6 स (wrong syllable)
प्रकारः सदृशे भेदे पङ्कारो जलकुब्जके ।सोपाने शैवले सेतौ पदारः पादधूलिषु ॥ ६०८ ॥
3.23.608
अनुष्टुप्
पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले ।अर्घोपकरणे चापि पवित्रा तु नदीभिदि ॥ ६०९ ॥
3.23.609
अनुष्टुप्
प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च ।पार्परो भस्मनि यमे जराटे नीपकेसरे ॥ ६१० ॥
3.23.610
अनुष्टुप्
क्षयरोगे भक्तसिक्थे पामरो मूर्खनीचयोः ।पाटीरो मूलके वङ्गे तितऔ वातिकेऽम्बुदे ॥ ६११ ॥
3.23.611
अनुष्टुप्
केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ।पाण्डुरं तु मरुबके पिण्डारो भिक्षुके द्रुमे ॥ ६१२ ॥
3.23.612
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
महिषीपालके क्षेपे पिठरं मथि मुस्तके ।उखायां च पिञ्जरस्तु पीते रक्तेऽश्वभिद्यपि ॥ ६१३ ॥
3.23.613
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
पिञ्जरं शातकुम्भे स्यात् पीवरः स्थूलकूर्मयोः ।पुष्करं द्वीपतीर्थाहिखगराजौषधान्तरे ॥ ६१४ ॥
3.23.614
अनुष्टुप्
तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे ।वठरो मूर्खशठयोः बन्धूरो रम्यनम्रयोः ॥ ६१५ ॥
3.23.615
अनुष्टुप्
बन्धुरस्तु तयोर्हंसे बन्धुजीवविडङ्गयोः ।बन्धुरा पण्ययोषायां बर्बरी नीवृदन्तरे ॥ ६१६ ॥
3.23.616
अनुष्टुप्
बर्बरस्तु हञ्जिकायां पामरे केशचक्रले ।पुष्पे च बर्बरा शाके वर्करः पशुनर्मणोः ॥ ६१७ ॥
3.23.617
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
वदरा स्यादेलापर्ण्यां विष्णुक्रान्तौषधावपि ।बदरी कोलिकार्पास्योर्बादरं तु तयोः फले ॥ ६१८ ॥
3.23.618
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
बदरस्तु कार्पासास्थ्नि भङ्गुरौ वक्रनश्वरौ ।भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः ॥ ६१९ ॥
3.23.619
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 4 म (wrong syllable)
भार्योरुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः ।भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका ॥ ६२० ॥
3.23.620
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ।कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ ॥ ६२१ ॥
3.23.621
अनुष्टुप्
नक्रे राशिविशेषे च मन्दरो मन्थपर्वते ।स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषम् ॥ ६२२ ॥
3.23.622
अनुष्टुप्
मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि ।मधुरा मथुरापुर्यां यष्टीमोदामधूलिषु ॥ ६२३ ॥
3.23.623
अनुष्टुप्
मधुकर्कटिकायां च मिश्रेयाशतपुष्पयोः ।मन्दिरो मकरावासे मन्दिरं नगरे गृहे ॥ ६२४ ॥
3.23.624
अनुष्टुप्
मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि ।मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे ॥ ६२५ ॥
3.23.625
अनुष्टुप्
पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च ।मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ६२६ ॥
3.23.626
अनुष्टुप्
तथा व्रीहिविशेषे च मर्मरो वसनान्तरे ।शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि ॥ ६२७ ॥
3.23.627
अनुष्टुप्
मयूरः केकिचूडाख्योषध्यपामार्गकेकिषु ।महेन्द्रो वासवे शैले मज्जरी तिलकद्रुमे ॥ ६२८ ॥
3.23.628
अनुष्टुप्
वल्लर्य्यां स्थूलमुक्तायां माठरो व्यासविप्रयोः ।सूर्यानुगेऽथ मार्जारः स्यात्खट्वाङ्गबिडालयोः ॥ ६२९ ॥
3.23.629
अनुष्टुप्
मिहिरोऽर्केऽम्बुदे बुद्धे मुद्गरः कोरकास्त्रयोः ।लोष्ठादिभेदने वापि मुहिरो मूर्खकामयोः ॥ ६३० ॥
3.23.630
अनुष्टुप्
मुदिरः कामुके मेघे मुकुरो मकुरो यथा ।कुलालदण्डे बकुले कोरकादर्शयोरपि ॥ ६३१ ॥
3.23.631
अनुष्टुप्
मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके ।रुधिरं घुसृणे रक्ते रुधिरो धरणीसूते ॥ ६३२ ॥
3.23.632
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 सू (wrong syllable)
वल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले ।वल्लूरं तु वनक्षेत्रे वाहनोषरयोरपि ॥ ६३३ ॥
3.23.633
अनुष्टुप्
शुष्कमांसे कोलमांसे वरत्रा वर्त्तिकक्षयोः ।वशिरं किणिही सिन्धुलवणे कुम्भकेषु च ॥ ६३४ ॥
3.23.634
अनुष्टुप्
वागरो वारके शाणे निर्णये वाडवे वृके ।मुमुक्षौ पण्डिते चापि परित्त्यक्तभयेऽपि व ॥ ६३५ ॥
3.23.635
अनुष्टुप्
वासरो रागभेदेऽह्नि वादरं कृमिजे जले ।काकचिञ्च्याश्च बीजे वाग्दक्षिणावर्तशङ्खयोः ॥ ६३६ ॥
3.23.636
अनुष्टुप्
वासुरा वासितारात्र्योर्भुवि विष्टर आसने ।पादपे कुशमुष्टौ च विस्तरौ स्तम्बविस्तृती ॥ ६३७ ॥
3.23.637
अनुष्टुप्
विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ।विकारो विकृतौ रोगे विहारस्तु जिनालये ॥ ६३८ ॥
3.23.638
अनुष्टुप्
लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे ।विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः ॥ ६३९ ॥
3.23.639
अनुष्टुप्
विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः ।रसालायां विसरस्तु समूहे प्रसरेऽपि च ॥ ६४० ॥
3.23.640
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
शबरो म्लेच्छभेदेऽप्सु हरेऽथो शम्बरं जले ।चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे ॥ ६४१ ॥
3.23.641
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ ।शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे ॥ ६४२ ॥
3.23.642
अनुष्टुप्
उपलायां शर्करायुग्देशे च शकलेऽपि च ।शणीरं शोणमध्यस्थपुलिने दर्दरीतटे ॥ ६४३ ॥
3.23.643
अनुष्टुप्
शर्वरी निशि नार्यां च शक्वरी सरिदन्तरे ।छन्दोजातौ मेखलायां शारीरं देहजे वृषे ॥ ६४४ ॥
3.23.644
अनुष्टुप्
शार्वरं धातुके ध्वान्ते शावरो रोध्रपापयोः ।अपराधे शाबरी तु शूकशिम्ब्यथ शाक्वरम् ॥ ६४५ ॥
3.23.645
अनुष्टुप्
छन्दोभिच्छाक्वरस्तूक्षा शालारं पक्षिपञ्जरे ।सोपानहस्तिनखयोः शिखरं पुलकाग्रयोः ॥ ६४६ ॥
3.23.646
अनुष्टुप्
पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ।गिरिवृक्षाग्रकक्षासु शिशिरः शीतले हिमे ॥ ६४७ ॥
3.23.647
अनुष्टुप्
ऋतुभेदे शिलीन्ध्रस्तु तरुमीनप्रभेदयोः ।शिलीन्ध्रं कदलीपुष्पे कवकत्रिपुटाख्ययोः ॥ ६४८ ॥
3.23.648
अनुष्टुप्
शिलीन्ध्री विहगी गण्डूपदी मृदथ शीकरः ।वातास्तजलेऽम्बुकणे सुषिरं वाद्यगर्तयोः ॥ ६४९ ॥
3.23.649
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
सुषिरोऽग्नौ सरन्ध्रे च श्रृङ्गारो गजमण्डने ।सुरते रसभेदे च श्रृङ्गारं नागसम्भवे ॥ ६५० ॥
3.23.650
अनुष्टुप्
चूर्णे लवङ्गपुष्पे च संस्तरः स्रस्तरे मखे ।सङ्गरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ ६५१ ॥
3.23.651
अनुष्टुप्
सङ्गरं तु फले शम्याः सम्भारः सम्भृतौ गणे ।संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ॥ ६५२ ॥
3.23.652
अनुष्टुप्
गुणभेदेऽथ सङ्कारोऽवकरेऽग्निचटत्कृतौ ।सङ्कारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ ६५३ ॥
3.23.653
अनुष्टुप्
लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे ।सावित्री देवताभेदे सिन्दूरं नागसम्भवे ॥ ६५४ ॥
3.23.654
अनुष्टुप्
सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका ।रोचनी धातकी सुन्दर्यङ्गनायां द्रुमान्तरे ॥ ६५५ ॥
3.23.655
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेकऽपि च ।सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ ६५६ ॥
3.23.656
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ।सौवीरं काञ्जिकस्रोतोञ्जनयोर्बदरीफले ॥ ६५७ ॥
3.23.657
अनुष्टुप्