All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
द्विस्वरकाण्डः · द्विस्वरथान्ताः
इति द्विस्वरतान्ताः ।
अर्थो हेतौ प्रयोजने ॥ २०८ ॥
2.15.208
निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु ।आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २०९ ॥
2.15.209
अनुष्टुप्
कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः ।द्रवनिष्पापकेऽथ कुथः स्यादास्तरणदर्भयोः ॥ २१० ॥
2.15.210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोथस्तु मथने नेत्ररुग्भेदे शटितेऽपि च ।ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मिर्तौ ॥ २११ ॥
2.15.211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्मि (wrong syllable)
ग्रन्थिर्वस्त्रादिबन्धे रुग्भेदे कौटिल्यपर्वणोः ।ग्रन्थि तु ग्रन्थिपर्णे स्याद्गाथा वाग्भेदवृत्तयोः ॥ २१२ ॥
2.15.212
अनुष्टुप्
तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः ।ऋषिजुष्टे जले सत्त्रिण्युपाये स्त्रीरजस्यपि ॥ २१३ ॥
2.15.213
अनुष्टुप्
योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने ।तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयोः ॥ २१४ ॥
2.15.214
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 सू (wrong syllable)
प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि ।पृथुर्विशाले भूपाले वापिकाकृष्णजीरयोः ॥ २१५ ॥
2.15.215
अनुष्टुप्
प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि ।साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे ॥ २१६ ॥
2.15.216
अनुष्टुप्
यूथी तु मागधीपुष्पविशेषयोः कुरण्टके ।रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे ॥ २१७ ॥
2.15.217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरुपके ।संस्था स्पशे स्थितौ मृत्यौ सार्थो वृन्दे वणिग्गणे ॥ २१८ ॥
2.15.218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 रु (wrong syllable)
सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके ।
2.15.12